तिन्तिडीको वृक्षभेदः । “ चरेर्नुम् च' (गण १९९) । चश्चरीको भ्रमरः । मर्मरीको हीनजन । कर्करीका गलन्तिका । पुणतेः, पुण्डरीकं वादित्रम् । पुण्डरीको व्याघ्रोऽग्निर्दिग्गजश्च ।
४६१ । ईषेः किद्रस्वश्च । इषीका शलाका ।
४६२ । ऋकुजेश्च । ऋरजीक उपहतः ।
४६३ । सतनुम् च । स्टणीका लाला ।
४६४ । मृडः कीककङ्कणो । मृडीको मृग । मृडङ्कणः शिशुः ।
४६५ । अलीकादयश्च । कीकन्नन्ता निपात्यन्ते । 'अल भूषणादौ' । अलीकं मिथ्या । विपूर्वाञ्चलीकं विप्रियं खेदश्च । “वलीकं पटलप्रान्ते इत्यादि ।
४६६ । कृतृभ्यामीषन् । करीषोऽस्री शुष्कगोमये । तरीषः तरिता ।
४६७ । शृपृभ्यां किच । शिरीषः । पुरीषम् ।
४६८ । अजेंत्रसुज च । ऋजीषं पिष्टपचनम् ।
विशिष्टार्थस्य पूरयितारौ चेति व्याख्यातम् । तिन्तिडीक इति ॥ तिमेर्मकारस्य डकारः । अभ्यासस्य नुक् च । “तिन्तिडी विश्वाम्लिका' इत्यमरे तु शब्दान्तरम् । तथा च 'तिन्तिडी त्वम्लिका चिञ्चा तिन्तिडीका कपिप्रिया' इति वाचस्पतिः । “ अम्लीका चाम्लिका चिञ्चा तित्तिडीका च तिन्तिडी' इति चन्द्र । “अम्लिका चुक्रिका चुक्रा साम्रा शुक्राऽथ शुक्तिका । अम्लिका चिधिका विश्वा तित्तिडीका च तित्तिडा' इति धन्वन्तरिनिघण्टुः । यत्तु उज्ज्वल दत्तेनोक्तम् 'उपदशस्तृतीयायाम्' इति सूत्रे तित्तिडोपदश भुङ्गे इति भाष्यप्रयोगात्साधुतेति तदुपेक्ष्यम् । ‘उपदंश ' इति सूत्रस्य भाष्यकारेरस्पृष्टत्व भाष्य कुत्राप्य भावाच्च । “भ्रमरश्चञ्चरीकः स्याद्रोलम्बेो मधुसूदन. । इन्दिन्दिर. पुष्पकीटो मधुद्रो मधुकेशटः’ इति त्रिकाण्डशेष । “कर्कयलूर्गलन्तिका' इत्यमरः । “पुण्डरीकं सिताम्भोजे सितच्छत्रे च भेषजे । पुंसि व्याघ्र च दिङ्नागे कोशकारान्तरेऽपि च' इति मेदिनी । ईषेः ॥ 'ईषीका स्यादिशीकापि वानायुजवनायुजा' इति द्विरूपकोश. । सर्तेः ॥ “सृणीका स्यन्दिनी लाला ' इत्यमरः । मृडः कीक ॥ कित्त्वादन्तोदात्तः । कीकनित्युज्ज्वलदत्तादिपाठस्तु प्रामादिक. । मृलोकेऽस्य सुमतौ स्याम । मृलीकावप्रियव्रजान्’ इत्यादिषु चित्खरस्यैव दर्शनात् । अलीकादयश्च ॥ 'अलीकमप्रियेऽपि स्यात् दिव्यसल्ये नपुसकम्' इति मेदिनी । “अलीक मप्रिये भाले वितथे' इति हेमचन्द्रः । तथा च प्रयुज्यते । “त दृष्टिमात्रपतिता अपि कस्य नात्र क्षेोभाय पक्ष्मलदृशामलकाः खलाश्च । नीचा सदैव सविलासमलीकमन्ना ये कालतां कुटिलताश्च न सत्यजन्ति” इति । 'व्यलीकमप्रियाकार्यवैलक्ष्येष्वपि पीठके । ना नागरे' इति