पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५८
[लकारार्थ
सिध्दान्तकौमुदीसहिता

२७८५ । किंवृत्ते लिप्सायाम् । (३-३-६)

किंवृत्तं विभक्त्यन्तम् । भविष्यति लङ्का स्यात् । कं कतरं कतमं वा भोजयसि-भोजयिष्यसि-भोजयितासि वा लिप्सायाम्' किम् पाटलिपुत्रं गमिष्यति ।

२७८६ । लिप्स्यमानसिद्धौ च (३-३-७)

लिप्स्यमाननान्नादिना स्वर्गादेः सिद्धौ गम्यमानायां भविष्यति लड़ा स्यात् । योऽन्न ददाति-दास्यति-दाता वा । स स्वर्ग याति-यास्यति--याता वा ।

२७८७ । लोडर्थलक्षणे च । (३-३-८)

लोडर्थः प्रैषादिर्लक्ष्यते येन तस्मिन्नर्थे वर्तमानाद्धातोर्भविष्यति लड़ा स्यान् । कृष्णश्चैडुङ्गे त्वं गाश्चारय । पक्षे लुट्लटौ ।

२७८८ ॥ लिङ् चोध्र्वमौहूर्तिके । (३-३-९)

ऊध्र्व मुहूर्ताद्भवः ऊध्र्वमौहूर्तिकः । निपातनात्समासः उत्तरपदवृद्धिश्च । ऊध्र्वमैौहूकेि भविष्यति लोडर्थलक्षणे वर्तमानाद्धातोलिङ्लटौ वा स्तः। मुहूर्ता


किंवृत्ते लिप्सायाम् । किशब्देन वृत्त निष्पन्न किवृत्तमित्यभिप्रेत्य आह । विभक्तयन्त मिति । लङ्केति । लडभावे तु लुट्लटौ यथाप्राप्तम् । किवृत्तशब्देन विभक्तयन्तडतरडतमा न्तानामेव ग्रह्णमिति वृति. । तेन कदादियोगे भविष्यति लट् । ‘यदृत्तान्नित्यम्’ इति सूत्रभाष्य रीत्या तु किवृत्ताना सर्वेषा कदेत्यादीनामपि ग्रहणमिति युक्तम् । कं कतरै कतमं वेति । क्षुधितमन्नलिप्सुमिति शेषः । लिप्स्यमानसिद्धौ च ॥ लड़ेति । पक्षे लिग्स्यमानसिद्धौ लेि साया. सत्वेऽयकिवृत्तार्थमिदमिति मत्वोदाहरति । योऽन्नमिति । योऽन्न ददाति स स्वर्ग याति । योऽन्न दास्यति स स्वर्ग यास्यति । योऽन्न दाता स. स्वर्ग यातेत्यन्वयः । लोडर्थलक्ष णे च ॥ लोडर्थः प्रैषादिरिति । विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्रप्रार्थनेषु इत्यनुवृत्तौ लोट् चेति लोड़िधानादिति भावः । कृष्णश्चेदिति। कृष्णभोजनकाले त्वङ्गाश्चारयेत्यर्थः । अत्र कृष्ण भोजन लोडर्थस्य गोचारणप्रैषस्य लक्षणम् । परिच्छेदकमिति यावत् विति । कृष्णश्चद्रोक्ता, भोक्ष्यते, वा त्वङ्गाश्चारयेत्युदाहार्यम् । लिङ् चोध्र्वमौहूर्तिके।। ऊध्र्व मिति विभाक्तिप्रतिरूपकमव्ययम् । ऊध्र्व मुहूर्तान् भव इति विग्रहः । केचित्त ऊध्र्वमिति द्वितीयान्तम् । 'अकर्मकधातुभिर्योगे' इति कर्मवत्वादित्याहु. । ऊध्र्वमौहूर्तिकः इति ॥ ऊध्र्वमुहूर्तशब्दात् भवार्थे कालाद्वाविति भावः । ननु तद्धितार्थत्यत्र दिक्सङ्खये इत्यनुवृत्तेस्स भानाधिकाराचात्र कथं समास इत्यत आह । निपातनादिति । पूर्वपदे आदिवृद्धिमाशङ्कय आह । उत्तरपदवृद्धिश्चेति । निपातनादित्यनुषज्यते । ऊध्र्वमौहूर्तिके इति ॥ मुहू