२८१० । कामप्रवेद्नेऽकचिति । (३-३-१५३)
स्वाभिप्रायाविष्करणे गम्यमाने लिङ् स्यान्न तु कश्चिति । कामो मे भुञ्जीत भवान् । “अकचिति' इति किम् । कचिज्जीवति ।
२८११ । सम्भावनेऽलमिति चेत्सिद्वाप्रयोगे । (३-३-१५४)
अलमर्थोऽत्र प्रौढि : । सम्भावनमित्यलमिति च प्रथमया सप्तम्या च विपरिणम्यते । सम्भावनेऽर्थे लिङ् स्यात्, तचेत्सम्भावनमलमिति सिद्धाप्रयोगे सति । अपि गिरिं शिरसा भिन्द्यात् । “मिद्धाप्रयोगे ' किम् । अलं कृष्णो हस्तिनं हनिष्यति ।
२८१२ । विभाषा धातौ सम्भावनवचनेऽयदि । (३-३-१५५)
निमित्ते लड् क्रियातिपत्तौ' इत्येवाधिक्रियते इत्युक्तम् । एवञ्च ‘उताग्यो इति सूत्रप्रभृति लिङ्नमित्ते क्रियातिपत्तौ भूते लडित्येवाधिाक्रियते, नतु वाग्रहणम् । अतो नित्यमेवात्र विषये क्रियाति पत्तौ भूते भविष्यति च लडित्यर्थः । कामप्रवेदनेऽकञ्चिति ॥ अकचितीति च्छेदः । तदाह । नतु कच्चितीति । सर्वलकारापवादः । अभिप्राय. इच्छा । कामः इति । भवान् भुञ्जीतेति मे कामः । इच्छेत्यर्थः । अत्र लिङ्निमित्तस्य सत्त्वात् क्रियातिपत्तौ भूतेऽपि नित्य लड् । प्रश्र एवायङ्कामप्रवेदनद्योतक इति प्राप्ति । अत्र कचिच्छब्दस्य इच्छार्थकत्वाभावादि न्छार्थेष्विति वक्ष्यमाणन्नात्र प्रवर्तते । सम्भावने ॥ अलमर्थोऽत्र प्रौढिरिति ॥ पर्याप्तिरि त्यर्थः । विपरिणम्यते इति । सम्भावने इति यत् सप्तम्यन्तन्तत् आवल्यै प्रथमया सम्भा वनमिति च विपरिणम्यते । यतु अलम् इति प्रथमान्तन्तत् आवल्यै सप्तम्या अलमि इति च विप रिणम्यत इत्यर्थः । छान्दस विभक्तिव्यत्ययमाश्रित्येति शेषः । तथाच सम्भावने इति सप्तम्य न्त सम्भावनमिति प्रथमान्तश्च लभ्यते । तथा अलम् इति प्रथमान्तं अलमि इति सप्तम्यन्तञ्च लभ्यते। तत्र सम्भावने इति सप्तम्यन्तमर्थनिर्देशपरम् । तदाह । सम्भावनेऽर्थे लिङ् स्या ते । उत्कटान्यतरकोटिक ज्ञान सम्भावनमित्युच्यते । सम्भावनमिति प्रथमान्तन्तु अल मिति प्रथमान्तेन विशेष्यते । इतिहेतौ । तदाह । तचेदिति । तत्सम्भावनम् अल पर्याप्ति हेतुकञ्चेदित्यन्वय. । षिधधातोज्ञानार्थकात् ‘मतिबुद्धि' इति वर्तमाने कर्मणि त्ते सिद्धशब्द। सिद्धे भम्यमानेऽप्यलमर्थे अप्रयोगो यस्य सः सिद्धाप्रयागः तास्मिान्निति विग्रहः । अलमि इति सप्तम्यन्त मत्र विशेष्यसमर्पक सम्बद्यते । अलशब्दप्रयोग विनापि तदर्थे गम्यमाने इति यावत् । तदाह । सिद्धाप्रयोगे सतीति । अलमीति शेष. । अपि गिरिमिति । बलवन्तं पुरुष मधिकृत्य अत्युक्तिरियम् । प्रायेण शिरसा गिरि भेत्तुमय समर्थ इत्यर्थः । गिरिभेदमम्भावनस्य सामथ्र्यहेतुकत्वद्योतकः अपिशब्दः । अत्र लिड्निमित्तसत्त्वात् क्रियातिपत्तौ भूते लड्। ‘अलमिति सम्भावने सिद्धाप्रयोगश्रेत्’ इति सुवचम् । विभाषा धातौ ॥ अयदीति छेदः । तदाह । नतु