ह एति' (सू २२५०) इति हृत्वं न । तासिसाहचर्यादस्तेरपि व्यतिहे
इत्यादैौ सार्वधातुके एति हत्वप्रवृत्तेरित्याहुः । भाविता । चिण्वदिट: आभी
यत्वेनासिद्धत्वाण्णिलोपः । पक्षे भावयिता । भाविष्यते-भावयिष्यते ।
भाव्यताम् । अभाव्यत । भाव्येत । भाविषीष्ट-भावयिषीष्ट । अभावि । अभा
विषाताम्-अभावयिषाताम्। बुभूष्यते । बुभूषांचक्रे । बुभूषिता । बुभूषिष्यते ।
बोभूयते । यङ्लुगन्तात्तु । बोभूयते । बोभवाञ्चक्रे । बोभाविता-बोभविता ।
अकृत्सार्व—' (सू २२९८) इति दीर्घः । स्तूयते विष्णुः । तुष्टुवे । स्ताविता
स्तोता । स्ताविष्यते-स्तोष्यते । अस्तावि । अस्ताविषाताम्-अस्तोषाताम् ।
गुणोऽति' (सू २३८०) इति गुणः । अर्यते । स्मर्यते । सस्मरे । परत्वा
प्रथमैकवचनतशब्दस्य ‘लिटस्तझयो.’ इति एशादेशे उत्तमपुरुषेकवचनस्य इटश्च ‘टित आत्मनेपदा नाम्' इत्येत्वे च कृते भावयामास् ए इति स्थिते ‘ह एति’ इति सकारस्य हकारः प्राप्तो न भवती त्यर्थः । कुत इत्यत आह । तासीति ॥ “ह एति ’ इत्यत्र तासस्त्योरित्यनुवर्तते । तत्र एधि ताहे इत्यादौ तासेस्सस्य सार्वधातुक एव एति परे हकार इति निर्विवादः । तथाविधतासिसाह चर्यादस्तेरपि सकारस्य व्यतिहे इत्यादौ सार्वधातुक एव पर प्रवृत्तिः । अतो भावयामासे इत्यत्र नास्तस्सवकारस्य हकार । एकारस्यार्धधातुकत्वादित्यर्थ । भावितेति ॥ ण्यन्तात् भावि ता इति स्थिते परत्वाद्वलादिलक्षणमिट बाधित्वा चिण्वदिटि तस्याभीयत्वेनासिद्धत्वादनिटीति निषेधाभावाण्णिलोपे भावितेति रूपम् । अत एव विण्वदिड़िधौ उपदेशे योऽजित्येव व्याख्या तम्, नतु उपदेशे अजन्तस्येति । तथा सति हि णिजन्तस्य उपदेशाभावान्न स्यादिति भावः । वलादिलक्षणे इटि कृते तु तस्य अनाभीयत्वेन सिद्धत्वाभावादनिटीति निषेधाण्णिलोपाभावे णेर्गुणायादेशयोः कृतयोर्भावयितेति रूपमिति मत्वा आह । पक्षे भावयितेति ॥ अथ सन्नन्तात् भूधातोः कर्मलकारे उदाहरति। बुभूष्यते इति ॥ यकि सनोऽकारस्य ‘अतो लोप.’ इति लोपः। बुभूषिता । बुभूषिष्यते इति । चिण्वदिटि वलादिलक्षणे इटि व रूप तुल्यम् । चिण्वदिङ्भावपक्षेऽपि तदतिदेशेन प्राप्ता वृद्धि बाधित्वा परत्वादतो लोप । अथयडन्तात् भूधातोः भावलकारे उदाहरति । बोभूय्यते इति ॥ यकि यडोऽकारस्य पूर्ववदतोलोपः । द्वियकारक रूपम् । यड्लुगन्तात् बोभूयते इति एकयकार रूपम् । ठुञ्धातोः कर्मलकारे यकि तस्यार्ध धातुकत्वात् ‘अतो दीर्घ यजि' इत्यप्राप्तावाह। अकृत्सार्वेति ॥ स्ताविता-स्तोतेति ॥ चिण्व दिडभावपक्षे अनिट्कत्वान्नेट् । अथ ऋधातो. कर्मणि लकारे यकि कृते कित्त्वादुणनिषेधे प्राप्त आह्। गुणोऽतति । अर्यते इति ॥ गुणे कृते रपरत्वम् । स्मृधातोः कर्मणि लकारे आह । स्मर्यते इति ॥ 'गुणोऽर्ति' इति सयोगादित्वात् गुणे रपरत्वमिति भावः । ननु लुटि ऋ ता, स्मृ ता इति स्थिते विण्वदिट बाधित्वा परत्वात् गुण. प्राप्तोति नित्यत्वाच्च । अकृते कृते च चिण्व दिटि गुणस्य प्राप्तेः । कृते तु गुणे रपरत्वे अजन्तत्वाभावाचिण्वदिडभावे अनिट्त्वाद्वलादिल क्षणेडभावे अर्त स्मर्तेत्येव स्यात् । आरिता स्मारितेति न स्यादित्यत आह । परत्वादि