२८३७ । हलश्रेजुपधात् । (८-४-३१)
हलादेरिजुपधात्कृन्नस्याचः परस्य णो वा स्यात् । प्रकोपणीयम् प्रकोपनीयम् । 'हलः' किम् । ओहणीयम् । 'इजुपधात्' किम् । प्रवपणीयम् ।
{{c|२८३८ । इजादेः सनुमः । (८-४-३२) सनुमश्चेद्भवति तर्हि इजादेर्हलन्ताद्विहितो यः कृत्तत्स्थस्यैव । प्रेङ्कणी यम् । “इजादेः' किम् । 'मगि सर्पणे' । प्रमङ्गनीयम् । नुम्ग्रहणमनुस्वारोप लक्षणम् । “अट्कुप्वाङ्-' (सू १९७) इति सूत्रेऽन्येवम् । तेनेह न । प्रेन्वनम् । इह तु स्यादेव । ओम्भणम् ।
२८३९ । वा निंसनिक्षनिन्दाम् । (८-४-३३)
एषां नस्य णो वा स्यात्कृति परे । प्रणिंसितव्यम् –प्रनिंसितव्यम् ।
२८४० । न भाभूपूकमिगमिप्यायीवेपाम् (८-४-३४)
एभ्यः कृन्नस्य णो न । प्रभानीयम् । प्रभवनीयम् । पूञ् एवह महणमिष्यते' (वा ५०११) पूङस्तु प्रपवणीयः सोम । “ण्यन्तभादीनामुप संख्यानम्' (वा ५०१२) । प्रभापनीयम् * क्शाञ्जः शस्य यो वा' (वा
ततश्च दुर उपसर्गत्वाभावात् तत परे कृत्स्थनकारे सूत्रद्वयमपि न प्रवर्तते इत्यभिप्रेत्य उदा हरति । दुर्यानं-दुर्यापनमिति ॥ यातेण्र्यन्तात् ल्युटि णिलेोप रूपम् । हलश्रेजुपधात् ॥ हलन्तादिति नार्थ. । इजुपधस्य हलन्तत्वाव्यभिचारात् । किन्तु हलादेरिति विवक्षितम् । तदाह । हलादेरिजुनुपभ्रादिति ॥ परस्येति शेष . । प्रोहणीयमित्यादि प्रत्युदाहरणे तु 'कृत्यच.' इति नित्यमेव णत्वम् । इजादेः ॥ ‘णेर्विभाषा' इति निवृत्तम् । ‘कृत्यच.’ इत्यनुवर्तते । ‘हलश्चजुपधात् इत्यतेो हल इति च । प्रकृतिविशेषणत्वात् तदन्तविधि.। तथाच सनुमो हलन्तात् इजुपधात् कृन्नस्य णः स्यादिति लभ्यते । एवञ्च प्रेङ्खणीयमित्यादो ‘कृल्यच' इत्येव सिद्धेरिदन्नियमार्थमित्याह । सनु मश्रेदिति ॥ कृत्स्थस्यैवेत्यनन्तर णत्वमिति शष । प्रेङ्कणीयमिति ॥ इखधातुरिदित्वा त्सनुम् । ननु ‘इवि प्रीणने' इति धातोल्र्युटि तस्यानादेशे प्रेन्वनमित्यत्रापि णत्व स्यात् । सनु मोऽस्य इजादित्वात् हलन्तत्वाचेल्यत आह । सुंग्रहणमित्यादि । अनुस्वारश्च सर्व एव गृह्यते, नतु नुस्थानिक एव । अविशेषात् । तदाह । इह त्विति ॥ प्रोम्भणमिति ॥ इह उम्भ धातुः स्वाभाविकानुस्वारवानेनव, न तु नुस्थानिकानुस्वारवानिति भाव । वा निंस ॥ उपस गर्गादिति अच इति च निवृत्तम् । तदाह । एषान्नस्येति ॥ न भाभू ॥ प्रभानीयमिति ॥