२८५८ । हस्वस्य पिति कृति तुक् । (६-१-७१)
इत्यः । स्लुत्य । * शास इदङ्कहलो:' (सू २४८६) । शिष्य । 'वृ इति वृञ्जो ग्रहणं न वृङ । वृत्यः । वृङस्तु वार्या ऋत्विज । आदृत्यः । जुष्यः । पुनः क्यबुक्तिः परस्यापि ण्यतो बाधनार्था । अवश्यस्तुत्यः । * शंसि दुहिगुहेिभ्यो वा' (वा १८३५) इति काशिका । शस्यम् । शंस्यम् । दुह्यम् । दोह्यम् । गुह्यम् । गोह्यम् । *प्रशस्यस्य श्र:' (सू २००९) *ईडवन्द्वृशंसदुहां ण्यत:’ (सू ३७०२) इति सूत्रद्वयबलाच्छंसेः सिद्धम् । इतरयोस्तु मूलं मृग्यम् । आङ्पूर्वाद्जेः संज्ञायामुपसङ्ख-यानम्' (वा १९२५) । “अजू' व्यक्तिम्रक्ष णादिषु । बाहुलकात्करणे क्यप् । “अनिदिताम्--' (सू ४१५) इति नलोपः। आज्यम् ।
२८५९ । ऋदुपधाञ्चाक्लपिचतेः । (३-१-११०)
वृ, दृ, जुष्, एषां षण्णां समाहारद्वन्द्वात्पञ्चमी । सुप्यनुपसर्गे भाव इति निवृत्तम् । तदाह । एभ्यः क्यप्स्यादिति । हृस्वस्य । स्पष्टमिति न व्याख्यातम् । इत्य इति । इणः क्यपि तुक् । उपयमित्यत्र तु ईडो दैवादिकाद्यत् । वृञ्जो ग्रहणमिति । वार्तिकमिदम् । न वृङः इति । “घृङ् सम्भक्तौ' इति डित’ कैयादिकस्य न ग्रहणमित्यर्थः । वार्या ऋत्विज इति ॥ अवश्य भजनीया इत्यर्थः । अत्र ‘वृड् सम्भक्तौ' इत्यस्मात् ण्यदित्यर्थः । अवद्यपण्यवर्या इति निपातसिद्धो यत्तु न । अत्र निरोधस्य नियमस्य विवक्षितत्वात् । ननु वदस्सुपि' इत्यतः अनुवृत्त्यैव सिद्धे क्यञ्ग्रहणमिह व्यर्थम् । नच चकारानुकृष्टयतोऽप्यनु वृत्तिनिवृत्तये क्यब्ग्रहणमिति वाच्यम् । चकारस्य अस्वरितत्बेन 'भुवो भावे' इत्याद्युक्तरसूत्रे ध्वनुवृत्त्यभावादित्यत आह । क्यबुक्तिः परस्यापी [ात ओोरावश्यके' इति विहितस्यत्यर्थ वेति काशिकेति । वा क्यप् । तदभावे हलन्तत्वात् ण्यत् । भाव्ये त्वेतन्न दृश्यते इति भावः । शस्यम्, शंस्यमिति ॥ क्यप्पक्षे “अनिदिताम्' इति नलोप. । दुह्यमिति ॥ क्यप्पक्षे कित्वान्न गुणः । अत्र ‘शंसिदुहिगुहिभ्यो वा' इत्यस्य भाष्ये अदर्शनेऽपि शसेण्यैत्क्यपैौ प्रामाणिकावित्याह । प्रशस्यस्येति ॥ “प्रशस्यस्य श्र.’ इति निर्देशबलात् शसेः क्यप्सिद्धः । ईडवदवृशंसदुहाण्यतः’ इत्याद्युदात्तत्वविधौ शसण्यदन्तत्वानुवादबलात् ण्यात्सद्ध । ततश्च शस्यं शंस्यमिति रूपद्वयं सिद्धम् । इतरयोस्तु दुहिगुह्योः क्यविकल्पे मूलं नास्तीत्यर्थः । उपसङ्खयानमिति । क्यप इति शेषः । अाज्यमिति । न चाङ्पूर्वकत्वे पदपाठे अवग्रहः स्यादिति वाच्यम् । इष्टापतेः । पदकाराणामवग्रहाभावस्त्वप्रामाणिक एव पदपाठस्याधुनि कत्वात् इति भाष्ये स्पष्टम् । एवञ्च अस्मद्रियगित्यस्म द्रियगिल्यवग्रहः अप्रामाणिक एव । अस्मद्रि अक् इत्येवावग्रहो युक्तः । अस्मच्छब्दस्य टेरद्यादेशविधानात् इत्यायूह्यम् । ऋदुपधाञ्चाक्ल पिचवतेः ॥ क्लप्चूती वर्जयित्वा ऋदुपधाद्धातोः क्यबित्यर्थ । तपरकरणमिह व्यर्थमित्यत