२८६२ । मृजेर्विभाषा (३-१-११३)
२८६३ । चजोः कु घिण्ण्यतोः । (७-३-५२)
चस्य जस्य च कुत्वं स्याद्विति ण्यति च प्रत्यये परे । “निष्ठायामनिट इति वक्तव्यम्’ (वा ४५५१) । तेनेह न । गज्र्यम् । 'मृजेद्धिः ' (सू २४७३) । माग्येः ।
२८६४ । न्यङ्कादीनां च । (७-३-५३)
कुत्वं स्यात् । न्यङ्गुः । 'नावचे:' (उणा १७) इत्युप्रत्ययः ।
२८६५ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः॥(३-१-११४)
एते सप्त क्यबन्ता निपात्यन्ते । राज्ञा सोतव्योऽभिषवद्वारा निष्पाद् यितव्यः । यद्वा । लतात्मकः सोमो राजा स सूयते खण्डयतेऽखेत्यधिकरणे क्यन्निपातनाद्दीर्घः । राजसूयः-राजसूयम् । अर्धचर्चादिः । सरत्याकाशे सूर्य । कर्तरि क्यन्निपातनादुत्वम् । यद्वा *घू प्रेरणे' तुदादिः । सुवति कर्मणि लोकं प्रेरयति क्यपो रुट । मृषोपपदाद्वदेः कर्मणि नित्यं क्यप् । मृषोद्यम् । विशेष्यनिन्नोऽयम् उच्छायसौन्दर्यगुणा मृषोद्या । राचतः रुचयः ।
न क्यप् इति बोध्यम् । मृजेर्विभाषा ।। क्यप्पक्षे उदाहरति । मृज्य इति । कित्वान्न गुणः । चजोः कु धिण्यतोः ॥ कु इत्यविभक्तिका निर्देश. । चजोर्घिण्यतोश्च यथासङ्खयन्तु न । ‘तेन रक्तं रागात्’ इति घाँ जस्य कुत्वनिर्देशात् । राजसूय । राज्ञेति । क्षत्त्रियेणेत्यर्थः। अभिषवेति ॥ ग्रावभिः रसनिष्पत्त्यर्थं सोमलतानाडुट्टनमभिषवः, तत्प्रगाडिकया निष्पाद यितव्यो यज्ञविशेषः राजसूय इत्यन्वय । यद्वेति ॥ लताविशेषात्मकः सोमः राजशब्देन विवक्षितः राजान क्रीणातीत्यादौ तथा प्रसिद्धे । सः राजा सूत अाभघूयत अत्र यज्ञविशेषे इति व्युत्पत्त्या राजसूय, इत्यन्वयः । “कर्तरि कृत्’ इत्यधिकारात् कथमधिकरण व्युत्पत्तिरित्यत आह । अधिकरणे क्यबिति । कुत इत्यत आह । निपातनादिति ।। ननु षुञ्धातोः क्यपि कथन्दीर्घ । “अकृत्सार्वधातुकयो.’ इत्यस्य कृत्यप्रवृत्तरित्यत आह । निपातनाद्दीर्घ इति । निपातनादित्युभयत्रान्वेति । उत्वमिति । तस्य रपरत्वे ‘हलि च' इति दीर्घ इत्यपि बोध्यम् । मृषाद्यमिति ॥ क्यपि ‘वचिस्वपि’ इति सम्प्रसारणम्। रोचतेरिति ।। रुवधातोः क्यपि रुच्य इति रूपमित्यर्थः । गुपेरिति । गुप्धातोः क्यप् प्रकृतेरादिवर्णस्य ककारश्च सज्ञायान्निपात्यते इत्यर्थः । सुवर्णरजतभिन्नन्धनडुप्यमिति ज्ञेयम् । तथा च “हेमरूपे कृताकृते