पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४३५
बालमनोरमा ।

घुमास्था-' (सू २४६२) इतीत्वम् । दीयते । धीयते । ‘आदेच - (सू २३७०) इत्यत्र अशितीति कर्मधारयादित्संज्ञकशकारादौ निषेधः । एश: आदि शित्वाभावात्तस्मिन्नात्वम् । जग्ले ।

२७६१ । आतो युक्चिण्कृतोः । (७-३-३३)

आदन्तानां युगागमः स्याचिणि विपति णिति कृति च । दायिता-दाता । दायिषीष्ट-दासीष्ट । अदायि । अदायिषाताम्-अदिषाताम् । अधायिषाताम् अधिषाताम् । अग्लायिषाताम्-अग्लासाताम्। हन्यते । 'अचिण्णलो (सू २५७४) इत्युत्तेर्हनस्त ो न । “हो हन्तेः–’ (सू ३५८) इति कुत्वम् । घानिता-हन्ता । घानिष्यते-हनिष्यते । आशीलिङि वधादेशस्यापवादश्चि


भावे वा लुडिल्याह । यद्वा पापेन पुंसा कर्तेति ॥ परिणाममसमीक्ष्य सहसा किञ्चिदकृत्य कृत्वा पश्चात् दुःखमन्वभवदित्यर्थः । दुःखानुभव. शोक. धात्वर्थेनोपसङ्गहादकर्मकः । 'शुच शोके' अकर्मक. । पुत्रमनुशोचवतीत्यत्र तु वियुक्तं पुत्र स्मृत्वा शोचतीत्यर्थः । स्मरण पुत्रस्य कर्मत्वात् द्वितीयेत्यविरोध । अथ दाधातोर्धधाताश्च कर्मलकारे यकेि विशेषमाह । घुमाथे तीत्वमिति । ग्लैधातोर्भावे लिटस्तादेशस्य एशादेशे “आदेच.' इत्यात्वस्य अशितीति निषे धमाशङ्कय आह । आदेच इत्यत्रेति ॥ श् चासाविच इति कर्मधारयाश्रयणादित्सज्ञकशकारादौ प्रत्यये परे आत्त्वस्य निषेधेो लभ्यतेत । एश. शित्वेऽपि आदिभूतशकारेत्कत्वाभावान्निषेधाभावा त्तस्मिन् एशि परे आत्व भवत्येवेत्यर्थ. । जग्ले इति ॥ आत्चे कृते “ आतो लोप इटि च इति तस्य लोप इति भावः । आतो युक् ॥ अङ्गस्येत्यधिकृतमाता विशेषितम्, तदन्तविधि. । अचो णिति' इत्यतो ऽिणतीत्यनुवृत्त कृत एव विशेषणम्, नतु चिणः । तस्य णित्वाव्यभिचा रात् । तदाह । आदन्तानामित्यादि । दायितेति । चिण्वदिट्पक्षे युक्। अदायिषातामि ति ॥ ‘स्थाध्वोरिच' इत्येतत् बाधित्वा परत्वाचिण्वदिटि कृते ‘घुमास्था’ इतीत्वन्न । अजादित्वात्। पुनः ‘स्थाध्वोरिच' इति तु न भवति । अझलादित्वात् । तत्र हि 'इको झल्' इति सूत्रात् झल् इत्यनुवृत्तम् । तथाच झलादिरेव सिच् किदिति लाभादिडादिः सिञ् न कित् । तत्सन्नियोगादि त्वमपि न भवतीत्याहुः । वस्तुतस्तु सत्यपि तस्मिन्नात्र काचित् क्षतिः । सिच' कित्वेऽयनिग्ल क्षणया वृद्या रूपसिद्धेरिति दिक् । अथ हनधातोः कर्मलकारे आह । हन्यते इति ॥ आ चिवण्णलोरिति ॥ लुटि चिण्वदिटि वृद्धौ ‘हनस्तोऽचिण्णलो-' इति हनो नकारस्य तकारो न भवति । चिण्वत्वादित्यर्थः । कुत्वमिति ॥ तस्य णिति विहितस्यात्र विण्वत्वात् प्राप्तिरिति भावः । घानिष्यते इति ॥ 'ऋद्धनोः' इति बाधित्वा नित्यत्वाचिण्वदिट् । 'ऋद्धनोः' इति तु चिण्वदिटि कृते न भवतीत्यनिल्यम् । तत्र वलीत्यनुवृत्तरिति भावः । नन्वाशीर्लिडि घानिषीष्ट त्यत्र ‘हन् सीष्ट’ इति स्थिते परमपि चिण्वत्व बाधित्वा वधादेशः प्राप्रोति। आर्धधातुके विवक्षिते विहितत्वेन वधादशस्यान्तरङ्गत्वादत्यत आह । आशीर्लिङि वधादेशस्यापवादश्चि