२८८५ । भोज्यं भक्ष्ये । (७-३-६९)
भोग्यमन्यन् । “ण्यत्प्रकरणे लपिदभिभ्यां चेति वक्तव्यम्' । लाष्यम् । दभिर्धातुष्वपठितोऽपि वार्तिकबलात्स्वीकार्य: । दाभ्य ।
२८८६ । ओरावश्यके । (३-१-१२५)
उवर्णान्ताद्धातोण्यैत्स्यादवश्यम्भावे वोत्ये । लाव्यम् । पाव्यम् ।
२८८७ । आसुयुवपिरपित्रपिचमश्च । (३-१-१२६)
'षुञ्’ आसाव्यम् । “यु मिश्रणे' याव्यम् । वाप्यम् । राष्यम् ।
२८८८ । आनाय्योऽनित्ये । (३-१-१२६)
आङ्पूवोन्नयतेण्येदायादेशश्च निपात्यते । दक्षिणान्निविशेष एवेदम् । स हि गार्हपत्यादानीयतेऽनित्यश्च सततमप्रज्वलनान् । आनेयोऽन्यः घटादिः , वैश्यकुलादानीतो दक्षिणाग्निश्च ।
विहितण्यन्तस्य शक्यार्थकत्वमपि । भोज्यं भक्ष्ये ॥ भक्ष्य गम्ये ण्ये भुजेः कुत्वाभावो निपात्यते । इति प्रासङ्गिकम् । अथ प्रकृतम् । लपिदभिभ्याञ्चेति ॥ वार्तिकमिद ऋठहृलाण्यत्' इति सूत्रस्थम् । “पेोरदुपधात्' इति प्राप्तस्य ण्यदपवादस्य यतोऽपवादः । ओोरावश्यके ॥ लाव्यं पाव्यमिति ॥ 'अचो ञ्णिति' इति वृद्धा 'वान्तो यि' । आसुयुवपि ॥ आसु, यु, वपि, रपि, त्रपि, चम्, एषा समाहारद्वन्द्वः । ण्यदिति शेष. । आासाव्यमिति ॥ आङ्पूर्वस्य सुझेो ग्रहणमिति भावः । आनाय्यो ऽनित्ये ॥ अनित्ये इति छेद । दक्षिणाग्ििवशेष एवति ॥ वार्तिकमिदम् । स हीति । दक्षिणान्निहिं अन्निहोत्रार्थमहरहः गार्हपत्यादः प्रणीयत इत्यर्थः । एतेन आङ्पूर्वकस्य नयतेरर्थ उक्तः । अनित्यश्चेति ॥ गार्हपत्यवन्नित्यधारणाभावादिति भावः । तदाह । सततमप्रज्वलनादिति । सततन्धारणाभावादित्यर्थः । प्रणीतस्य दक्षिणान्नस्तत्तत्कर्मणि समासे लौकिकत्वमुक्त कल्पसूत्रेषु “अप्रवृत्ते कर्मणि लौकिक सम्पद्यते इति । ततश्च पुनः पुनः प्रणयनातू अनित्यत्वन्दक्षिणाझेरिति बोध्यम् । यद्यग्याहवनीयस्यापि पुनः पुनः प्रणयनमस्ति, तथापि दक्षिणान्निविशेष एवेति वार्तिकान्नाहवनीयस्य ग्रहणमित्यर्थः । विशेषग्रहणान्निल्यधारणपक्षे दाक्षिणानिरिह न गृह्यते इति सूचितम् । गतश्रियान्दक्षिणाझेरपि नित्यधायेत्वात् । “गतश्रियो नित्यधार्या अन्नयः” इति वचनादित्यलम्पल्लवितेन । वैश्यकुला दानीत इति ॥ दक्षिणाप्ति प्रकृत्य हि श्रूयते । “अहरहरेवैनं वैश्यकुलादाहरन्' इति । १. “चाम्यम्' इति अपपाठः, वृद्धद्यनुपपत्तेः ।