पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४९५
बालमनोरमा ।


भूदिति कृत्योक्तिः । लाघवादनेनैव ज्ञापनसंभवे प्रैषादिसूत्रे ‘कृत्याश्च' इति सुत्यजम् । अहें कृत्यतृचोप्रैहणं च ।

॥ इति कृदन्तकृत्यप्रकरणम् ॥


॥ श्रीरस्तु

॥ अथ कृदन्तप्रकरणम् ।।

२८९५ । ण्वुल्तृचौ । (३-१-१३३)

धातोरेतौ स्तः । कर्तरि कृन्’ (सू २८३२) इति कर्वर्थे । ‘ युवा रनाकौ' (सू १२४७) । कारकः । कर्ता । वोढुमह वोढा । । कारिका कत्रीं । ‘गाङ्कटा–’ (सू २४६१) इति ङित्त्वम्। कुटिता । अञ्णिदित्युक्तर्न ङित्वम् । कोटकः । इट्’ (सू२५३६) । विजिता । ‘हनस्तोऽचिण्णलो: 'वज(सू २५७४) । घातक । -' । 'आता युक् (सू २७६१) । दायक 'नोदात्तोपदेशस्य–’ । दमकः । (सू २७६३) इति न दृद्धिः शमक


शक्तावपि सिद्धेरित्यत आह । लिङ बाधेति ॥ ‘शकि लिङ्’ इत्येतावत्येवोत्ते शक्तौ विशेष विहितेन कृत्यानाम्बाधः स्यात्, अशक्तौ कृत्यानाश्चरितार्थत्वात्, वासरूपविधिस्तु स्त्र्यधिकारा दूध्र्वन्नेत्युक्तमेवेति भावः । लाघवादिति ॥ इह चकारमात्रेण वासरूपविधेः त्रयधिकारादूध्वं अनित्यताज्ञापन सम्भवति । अतः “प्रैषातिसर्ग' इति सूत्रे कृत्यग्रहणेन “अहं कृत्यतृचश्च इत्यत्र तृज्ग्रहणेन च तज्ज्ञापनाश्रयणे गौरवमिति भावः ॥ इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्याया कृदन्तकृत्यप्रकरण समाप्तम् ।


अथ कृदन्तप्रकरणम्-ण्डबुलत्वचा । अनयावतमानकालादन्यत्र न प्रयोग इति भाष्यम् वोढुमर्हः इति ॥ ‘अहं कृत्यतृचश्च' इत्युक्तरिति भावः । वोढेति । वहेः तृच्यनुदात्तत्वा दिडभावे ढत्वधत्वश्रुत्वढलोपेषु ‘सहिवहो' इत्योत्त्वम् । कुटितेत्यत्र लघूपधगुणमाशङ्कय आह । गाडिति ॥ तर्हि ण्वुलि कोटक इत्यत्रापि गुणो न स्यादित्यत आह । अञ्णिदित्युक्तेरिति । विजितेत्यत्र लघूपधगुणमाशङ्कय आह । विज इडिति ॥ कित्त्वामिति शेषः। विजितेति ।