पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९८
[कृदन्त
सिध्दान्तकौमुदीसहिता


विभीषणः । लवणः । नन्द्यादिगणे निपात्तनाण्णत्वम् । ग्राही । स्थायी । मन्त्री । विशयी । वृद्धयभावो निपातनात् । विषयी। इह षत्वमपि । परिभावी-परिभवी । पाक्षिको वृद्धयभावो निपात्यते । पचादिराकृतिगण: 1 *शिवशमरिष्टस्य करे (सू ३४८९) । 'कर्मणि घटोऽठच्’ (सू १८३६) इति सूत्रयोः करोतेर्घटेश्चा च्यागात् । अच्प्रत्यय पर यङ्लुछाग्वधानाञ्च । कषान्वत्पाठस्त्वनुबन्धाः सञ्जनार्थः । केषाञ्चित्प्रपश्चार्थः । केषाञ्चिद्वाधकबाधनार्थः । पचवतीति पचः । नद्ट् । चोरट् । देवट् । इत्याद्यष्टितः । नदी । चोरी । देवी । दीव्यते 'इगुपध -' (सू २८९७) इति कः प्राप्तः । जारभरा । श्वपचा । अनयोः 'कमेण्यण' (सू २९१३) प्राप्तः । न्यङ्कादिषु पाठाच्छुपाकोऽपि । ‘यङोऽचि च' (सू २६५०) इति लुक् । “न धातुलोपे-' (सू २६५६) इति गुणवृद्धि


सात्पदाद्यो.’ इति न षत्वम् । नन्द्यादयो वृत्तौ पठिताः । तत्र केचित् ण्यन्ताः केचिदण्यन्ताः । सूत्रे ‘ग्रह उपादाने' इत्यस्य ग्रहीति इका निर्देश. । सौत्रत्वात् 'ग्रहिच्या' इति सम्प्रसारण न । ग्राहीति ॥ ग्रहधातोरदुपधाणिनिः । नकारादिकार उच्चारणार्थः । उपधावृद्धिः । विशायीति ॥ विपूर्वात् “शीड् स्वप्रे' इति धातोर्णिनिः । गुणायादेशौ । “ अचोऽञ्णिति' इति वृद्धिमाशङ्कय आह । वृद्यभाव इति ॥ विषयीति ॥ 'षिञ् बन्धने' अस्मात्कृतसत्वाणिनिः । गुणाया देशौ । नन्विह कथन्न वृद्धि, कथञ्च षत्व पदादित्वादित्यत आह । षत्वमपीति ॥ निपात नात् वृद्यभावष्षत्वञ्चेत्यर्थः । परिभावी-परिभवी इत्यत्र णित्वान्नित्यवृद्धिमाशङ्कय आह । पाक्षिक इति ॥ ग्रह्यादयो वृत्तौ पठिताः । पचादिराकृतिगण इति ॥ पञ्च वप इत्यादि कतिपयधातून् पठित्वा आकृतिगण इति गणपाठे वचनादिति भावः । गणपाठे आकृतिगणत्व वचनाभावेऽप्याह । शिवशमिति ।। सूत्रे करशब्दस्य पचादिगणेऽपठितस्य कृञ्ज. अच्प्रत्यया न्तस्य ‘कर्मणि घट:’ इति सूत्रे घटेराचि घटशब्दस्य च प्रयोगदर्शनादित्यर्थः । अच्प्रत्यय इति ॥ यडन्तादच्प्रत्यये परे “यडोऽवि च' इति यडो लुग्विधीयते । नहि पचादिगणे यडन्त पठितमस्ति । अतोऽपि पचादेराकृतिगणत्व विज्ञायते इत्यर्थः । पचादेराकृतिगणत्वे नदट् चोरट् इत्यादीनां तत्र पाठो व्यर्थ इत्यत आह । केषाञ्चिदिति ॥ टकारानुबन्धनासञ्जनार्थ इत्यर्थः । नन्वेवमपि वद चल इत्यादीनां अनुबन्धरहिताना तत्र किमर्थः पाठ इत्यत आह । केषाञ्चित्प्रपञ्चार्थ इति । बाधकेति ॥ जारभर श्वपच इत्यादौ पचाद्यजपवादस्य कर्मण्यणो बाधनार्थ भरपचादीनां पाठः इति भाष्यम् । देवः सेव. इत्यादौ *इगुपधज्ञाप्रीकिरः क.’ इति विशिष्य विहितस्य कस्य बाधनार्थञ्च । तदेतदुपपादयति । नदडित्यादि । ननु पचादिगणे श्वपचशब्दस्य बाधकबाधनार्थत्वे श्वपाक इति कथमित्यत आह । न्यङ्कादिषु पाठाच्छ्पाकोऽपीति । कदाचिदण्प्रत्ययः कुत्वञ्चेत्यर्थ. । चेििक्रयः, मरीमृजः इत्यादौ प्रक्रियान्दर्शयति । यङोऽचि चेति ॥ कीजादिधातोराचि यडो लुगित्यर्थः । द्वित्वादौ वेक्री