पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४९९
बालमनोरमा ।


निषेधः । चेक्रिय । नेन्यः । लोलुवः । पापुवः । मरीमृज : । * चरिचलिपतिः वदीनां वा द्वित्वमच्याक्चाभ्यासस्येति वक्तव्यम्' (वा ३४३०) । आगागमस्य दीर्घत्वसामथ्र्यादभ्यासहस्वो 'हलादिःशेपः' (सू २१७९) च न । चराचरः । चलाचलः । पतापतः । वदावदः । “हन्तेर्घत्वं च' (वा ३४३१) । घत्व मभ्यासस्योत्तरस्य तु * अभ्यासाच' (सू २४३०) इति कुत्वम् । घनाघनः । 'पाटेर्णिलुक्चोक्च दीर्घश्चाभ्यासस्य’ । पाटूट्रपट: । पक्षे चरः । चल: । पतः । वद्ः । हनः । पाटः । * रात्रेः कृति-' इति वा मुम् । रात्रिचरो रात्रिचरः ।

२८९७ । इगुपधज्ञाप्रीकिरः कः । (३-१-१३५)

प्रियः । किरतीति किरः । वासरूपविधिना ण्वुल्तृचवावपि । क्षेपकः-क्षेमा ।

२८९८ । आतश्चोपसर्गे । (३-१-१३६)

कः स्यात् । ‘श्याव्यध-' (सू २९०३) इति णस्यापवादः । सुग्लः । प्रज्ञ ।


अ इत्यादिस्थितौ आह । न धातुलोप इति ॥ चेक्रियः इति । गुणाभावे सयोगपूर्वत्वान्न यण् । नेन्य इति ॥ “एरनेकाच.’ इति यण् । लोलुवः इति । उवड् । यण्तु न । ‘ओस्सुपि इत्युक्तः । मरीमृज इति । अत्र ‘न धातुलोपे' इति निषेधात् न मृजेवृद्धिः । चरिचवलोति । एषाम् अच्प्रत्यय पर द्वित्वम् अभ्यान्मस्य आगागमथन्यथ । ननु चराचर इत्यत्रान्यास रेफादाकारस्य हस्व. स्यात्, हलादिशेषेण तत्र रेफस्यापि निवृत्तिः स्यादित्यत आह । आगागमस्येति ॥ हस्वत्वे सत्यागागमे दीघाँचारण व्यर्थम्, अगागमयैव विधातुं शक्य त्वात् । तथा हलादिशेषेण रेफस्य निवृत्तै हस्वत्वेऽपि सवर्णदीर्घण चराचर इति सिद्धे दीघों चारण हलादिशेषाभावङ्गमयतीत्यर्थः । हन्तेरिति ॥ वार्तिकमिदम् । हनधातोरवि घत्व द्वित्व आक् चेत्यर्थः । ननु उत्तरखण्डे * अभ्यासाच' इति कुत्वसिद्धेः किमर्थमिह घत्वविधानमित्यत आह । घत्वमभ्यासस्येति ॥ इह विधीयते इति शेषः । पाटेरिति । वार्तिकमिदम् । पाटेण पाटि इत्यस्मात् आवि णेर्लक्, द्वित्वम् । अभ्यासस्य ऊगागमः । अभ्यासस्य आकारस्य हृस्वे तस्य दीर्घश्चेत्यर्थः । वृद्धिनिवृत्तये णेर्लग्विधिः । आगमे दीघचारणात् हलादिशेषेण टकारस्य न निवृत्ति' । हलादिशेषे तु आदुणे पेोपट इति रूपस्य उगागमेऽपि सिद्धे । इगुः पधज्ञा ॥ 'कृ विक्षेप' इत्यस्य इत्वे रपरत्वे च किर् इति रेफान्तम्, इगुपध, ज्ञा, श्री, किर एषान्द्वन्द्वात्पञ्चमी । कित्त्व गुणनिषेधार्थम् । इ इति ॥ आतेो लोप. । प्रिय इति ॥ प्रीञ् के इयड् । किर इति । कृधातोरचि इत्वे रपरत्वम् । आतश्चोपसर्गे ॥ कः स्यादिति ॥ शेषपूरणम् । उपसर्गे उपपदे आदन्ताद्धातोः कस्यादिति फलति । णस्यापवाद् इति ॥ तस्य उपसर्गेऽनुपसर्गे च आदन्तसामान्यविहितत्वात् इति भावः । सुग्ल इति ॥ ग्लैधातोः आदेचः' इत्यात्वे कृते कप्रत्यये आतो लोप इति भावः । प्रज्ञ इति ॥ ज्ञाधातोरातो लोपः ।