पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५०९
बालमनोरमा ।


२९२८ । शमि धातोः संज्ञायाम् । (३-२-१४)

शम्भवः । शंवदः । पुनर्धातुग्रहणं बाधकविषयेऽपि प्रवृत्त्यर्थम् । कृञ्जो हेत्वादिषु टो मा भून् । शङ्करा नाम परिव्राजिका तच्छीला ।

२९२९ । अधिकरणे शेतेः । (३-२-१५)

खे शेतेत खशय । *पाश्चोदिपूपसङ्खयानम्’ (वा १९९६) । पाश्व भ्यां शेते पार्श्वशयः । पृष्टशयः । उदरेण शेते उदरशयः । “उत्तानादिषु कर्तृषु' (वा १९९८) । उत्तानः शेते उत्तानशयः । अवमूर्धशयः । अवनतो मूर्धा यस्य सोऽवमूर्धा । अधोमुखः शेत इत्यर्थः । “गिरो डदछन्दसि' (वा १९९९) गिरौ शेते गिरिश । लोके गिरिशयः । कथं तर्हि * गिरिशमुपचचार प्रत्यहं सा सुकेशी' इति । गिरिरस्यास्तीति विग्रहे लोमादित्वाच्छः ।

२९३० । चरेष्टः । (३-२-१६)

अधिकरण उपपदे । कुरुचरः । कुरुचरी ।

२९३१ । भिक्षासेनादायेषु च । (३-२-१७)


किम् । स्तम्बे रता गौः । कर्णे जपिता गुरु. मशको वा । शमि धातोः ॥ शमि इति सप्तम्य न्तम् । शमिति सुखार्थेकमव्ययम् । तस्मिन्नुपपदे धातोरच् स्यात्संज्ञायाम् ननु धातुप्रहण व्यर्थम् । न च रामजपोरननुवृत्त्यर्थन्तदिति वाच्यम् । अस्वरितत्वादेव तदननुवृत्तिसिद्धेरित्यत आह । पुनर्धातुग्रहणमिति ॥ “कृञ्जो हेतुताच्छील्यानुलोम्येषु' इति टप्रत्ययः अच् प्रत्ययबाधको वक्ष्यते, तद्वाधनार्थमित्यर्थः । आधिकरणे ॥ सुबन्तेऽधिकरणवाचिन्युपपदे शीड्धातोरच् स्यादित्यर्थः । प्रचदिष्विति ॥ अत्राधिकरणवाचिनीति न सम्बध्यते । तत् ध्वनयन्नुदाहरति । पाश्र्वाभ्यामिति ॥ उत्तानादिषु कर्तृष्विति । वार्तिकमिदम् उत्तानादिशब्देषु कर्तृवाचिघूपपदेषु शीडोऽजित्यर्थ । गिराविति ॥ वार्तिकमिदम् । गिरा वुपपदे शीडो डप्रत्यय इत्यर्थः । “अधिकरणे शेतेः' इत्यचोऽपवाद । “नमो गिरिशाय चव शिपिविष्टाय च ” इति शीडो डप्रत्यये डित्वसामथ्र्यादभस्यापि टेलप* । यद्यपि वैदिक प्राक्रयायामवद सूत्र व्याख्ययम् । तथाप लाक डप्रत्ययस्य न प्रष्टात्त' । किन्त्वजवात प्रदश नार्थमिह तद्याख्यानमित्यभिप्रेत्य लोके अच्प्रत्ययमुदाहरति । गिरिशय इति ॥ कथमिति॥ लोके डप्रत्ययासम्भवादिति भावः । समाधत्ते । गिरिरस्यास्तीत्यादि । चरेष्टः ॥ ट इति च्छेद । अधिकरणे उपपदे इति शेषः । अधिकरणे शतरित्यतः तदनुवृत्तेरिति भावः । कुरुचर इति ॥ कुरुषु चरतीति विग्रहः । न च “अकर्मकधातुभिर्योगे' इति कर्मत्व शङ्कयम् । तस्य वकाल्पकतायाः तत्रव प्रपञ्चतत्वात् । तत्र अत्रत्यमाप भाष्य प्रमाणम् । भिक्षासेना ॥ भिक्षा, सेना, आदाय, एषु चोपपदेषु चरेष्टः स्यादित्यर्थः । भिक्षाञ्चरतीति ॥