पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१०
[कृदन्त
सिध्दान्तकौमुदीसहिता


भिक्षां चरतीति भिक्षाचरः । सेनाचर । आदायेति ल्यबन्तम् आदायचरः । कथम् प्रेक्ष्य स्थितां सहचरीम्' इति । पचादिषु चरडिति

२९३२ । पुरोऽग्रतोऽग्रेषु सर्तेः । (३-१-१८)

पुरःसर । अग्रतःसरः अग्रमग्रेणाग्रे वा सरतीत्यग्रेसरः । सूत्रेऽग्र इत्ये दन्तत्वमपि निपात्यते । कथं तर्हि *यूथं तद्ग्रसरगर्वितकृष्णसारम्' इति । बाहुळकादिति हरदत्तः ।

२९३३ । पूर्वे कर्तरि । (३-२-१९)

कर्तृवाचिनि पूर्वशब्द उपपदे सर्तेष्टः स्यात् । पूर्वः सरतीति पूर्वसर । कतार ' किम् । पूव दश सरतात पूवसारः ।

२९३४ । कृङओो हेतुताच्छील्यानुलोम्येषु । (३-२-२०)

एषु द्यालयषु करोतेष्टः स्यात् । * अतः कृकमि-' (१६०) इति सप्त । यशस्करी विद्या । श्राद्धकर

२९३५ । द्विाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिलिभक्तिकर्तृचित्रक्षेत्रसङ्खयाजङ्काबाह्वहर्यत्तद्धनुररुषु। (३-२-२१)


चरतिरत्र चरणपूर्वके आर्जने वर्तते । चरणेन भिक्षामार्जयतीत्यर्थः । सेनाचवर इति ॥ सेनां प्रापयतीत्यर्थः । ल्यबन्तमिति । अत्र व्याख्यानमेव शरणम् । आादाय चरतीति ॥ लब्ध द्रव्यं गृहीत्वा चवरतीत्यर्थः । कथमिति ॥ अधिकरणे भिक्षासनादायेषु उपपदेषु च । विहितस्य टप्रत्ययस्य सहपूर्वाञ्चरेरसम्भवादिति भावः । समाधत्ते । पचादिष्विति ॥ यद्यपि भिक्षाचर इत्यादौ पचाद्यचि रूपसिद्धि , तथापि नित्योपपदसमासार्थमज्विधान मित्याहुः । पुरोऽग्रत ॥ पुरस्, अप्रतस्, अग्र, एधूपपदेषु सर्तेः टः स्यादित्यर्थ । अग्रेसर इति । ननु समासावयवत्वात्सुपो लुकि, अग्रसर इति स्यात् इत्यत आह । सूत्र इति ॥ कथमिति । एदन्तत्वनिपातनात् कथमग्रसरशब्दः इत्यर्थः । समाधत्त । बाहुळकादिति । पूर्वे कर्तरि । कर्तृशब्दः कर्तृवाचिनि गौणः । तदाह । कर्तृवाचि नीति । कृञ्जो हेतु ॥ हेतुः कारणम्, आनुलोम्यम् आराध्यचित्तानुवर्तनम्। द्योत्येष्विति ॥ कर्तुरेव प्रत्ययवाच्यत्वादिति भावः । हेत्वादिधूपपदेष्विति तु नाथे, व्याख्यानात् । कर्मण्युपपदे इत्यपि द्रष्टव्यम् । “कुप्वो.' इति जिह्वामूलीयमाशङ्कय आह । अतः कृकमीति । हेता वुदाहरति । यशस्करी विद्येति । विद्या यशोहेतुः । श्राद्धकर इति ॥ श्राद्धक्रिया शील इत्यर्थः । वचनकर इति । गुर्वादिवचनानुवतींत्यर्थः । दिवाविभा ॥ दिवा,