एषु कृव्यष्टः स्यादहेत्वादावपि । दिवाकरः । विभाकरः । निशाकरः ।
कस्कादित्वात्सः । भास्करः । बहुकरः । बहुशब्दस्य वैपुल्याथै सङ्ख-यापेक्षया
पृथग्ग्रहणम् । लिपिलिबिशब्दौ पर्यायौ । सङ्कया । एककरः । द्विकरः । कस्का
दित्वाद्हस्करः । नित्यं समासेऽनुत्तरपदस्थस्य' (१५९) इति षत्वम् । धनुष्करः ।
अरुष्करः। किंयत्तद्वहुषु कृञ्जोऽविधानम्’ (वा २००२) इति वार्तिकम्। किङ्करा।
यत्करा । तत्करा । हेत्वादौ टं बाधित्वा परत्वाद्च् । पुंयोगे डीष् । किङ्करी ।
२९३६ । कर्मणि भृतैौ । (३-२-२२)
कर्मशब्द उपपदे करोतेष्टः स्याद्भतौ । कर्मकरो भृतकः । कर्मकारोऽन्यः ।
विभा, निशा, प्रभा, भास्, कार, अन्त, अनन्त, आदि, वहु, नान्दी, किम्, लिपि, लिबि, बलि, भक्ति, कर्तृ, चित्र, क्षेत्र, सङ्खव, जङ्घा, बाहु, अहर, यद्, तद्, धनुम्, अरुस् एषां सप्तविंशतद्वैन्द्वात्सप्तमी । एष्विति ॥ उपपदेष्विति शेषः । अंहेत्वादिष्वपीति । हेतुताच्छील्यानुलोम्येषु अगम्येष्वपीत्यर्थः । हेत्वादिग्रहणस्य अननुवृत्तेरिति भाव । एतेन अहेत्वाद्यर्थमिद सूत्रमुक्त भवति । अत्र कर्मणीति सुपीति चानुवृत्त यथायोगमन्वेति । दिवाकर इति । दिवल्याकारान्तमव्ययमहीत्यर्थे । तस्याधिकरणशक्तिप्रधानस्यापि वृत्तिविषये कर्मत्व बोध्यम् । दिवा अहनि अर्थात् प्राणिनश्चेष्टायुक्तान् करोतीति वा विग्रहः । विभावकर इति ॥ विभा करोतीति विग्रहः । निशाकर इति । निशा करोतीति विग्रहः । एव प्रभाकरः । भाः करोति इति विग्रहे * अत कृकमि' इत्यत्रात इति तपरकरणात्सत्वस्याप्राप्तः “कुप्वो.’ इति जिह्वामूलीयविसर्गावाशङ्कय आह । कस्कादित्वादिति । कारकरः, अन्तकरः, अनन्तकरः आदिकरः, इति सिद्धवत्कृत्य आह । बहुकर इति । ननु सङ्कयाग्रहणेनैव सिद्धे बहुग्रहणं व्यर्थमित्यत आह । बहुशब्दस्येति । वैपुल्यवाचिनस्तस्य न सङ्खयाशब्दत्व मिति “बहुगणवतुडति सङ्खया' इत्यत्रोक्तम् । नान्दीकरः किङ्करः इति सिद्धवत्कृत्य आह । लिपिलिबिशब्दाविति ॥ तथा च लिपिकरः-लिविकर . । क्षेत्रकर इत्यन्त सिद्धवत्कृत्य आह । सङ्खयेति ॥ उदाह्रियते इति शेषः । जङ्घाकरः, बाहुकरः इति सिद्धवत्कृत्य अहस्करशब्द “कुप्वोः' इति जिह्वामूलीयविसर्गावाशङ्कय आह । कस्कादित्वादिति ॥ नजि जहातेरुत्पन्ने अहन्शब्दे हन्शब्दस्योत्तरपदतया तद्विसर्गस्य, उत्तरपदस्थत्वात् “ अतः कृकमि’ इत्यस्य न प्राप्तिरिति भावः । धनुष्करशब्दे आह । नित्यं समास इति । प्रत्ययावयवत्वातू 'इदुपधस्य च' इत्यस्य न प्राप्तिरिति भाव । कृञ्जोऽग्विधानमिति ॥ टस्यापवादः। किङ्करेति ॥ टप्रत्यये तु टित्वात् डीप्स्यादिति भाव. । हेत्वादिषु पूर्वविप्रतिषेधमा श्रित्य ‘कृओो हेतु' इति किङ्करादिषु ट एव किङ्करीति न्यासकारमतन्दूषयितुमाह । हेत्वादा विति । पूर्वविप्रतिषेधाश्रयणस्य निर्मूलत्वादिति भावः । तर्हि किङ्करीति कथमित्यत आह । पुंयोगे डीषिति ॥ कर्मणि भृतौ ॥ कर्मणीत्यनुवृत्तौ पुनः कर्मग्रहणन्तु कर्मशब्दस्वरूप प्रहणार्थम् । कर्मकरो भृतक इति ॥ वेतनहीत्वा यः परार्थङ्कर्म करोति स भृतक