पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५१३
बालमनोरमा ।

२९४२ । अरुषिद्जन्तस्य मुम् । (६-३-६७)

अरुषो द्विषतोऽजन्तस्य च मुमागमः स्यात्खिदन्ते उत्तरपदे न त्व व्ययस्य । शित्वाच्छबादिः । जनमेजयतीति जनमेजय । * वातशुनीतिलश धेष्वजधेट्तुदजहातिभ्यः खश उपसङ्ख-यानम्' (वा २००५) वातमजा मृगाः ।

२९४३ । खिल्यनव्ययस्य । (६-३-६६ )

खिदन्ते परे पूर्वपदस्य ह्रस्वः स्यान् ततो मुम् । शुनिन्धयः । तिलन्तुदः । शर्धजहा माषाः । शधर्मोऽपानशब्दस्तं जहातीति विग्रहः । जहातिरन्तर्भावि तण्यर्थ

२९४४ ॥ नासिकास्तनयोध्र्माधेटोः । (३-२-२९)

अत्र वार्तिकम्–“स्तने धेटो नासिकायां ध्मश्चेति वाच्यम्' (वा २००६-७) । स्तनं धयतीति स्तनन्धयः । धेटष्टित्वात्स्तनन्धयी । नासिक नासिकन्धय न्धम


व्याख्यानादिति भावः । खकारशकारावितौ । कर्मण्युपपदे इत्यपि ज्ञेयम् । अरुषित् ॥ अरुस् द्विषत्, अजन्त, एषा समाहारद्वन्द्वात् षष्टी । ‘अलुगुत्तरपदे’ इत्यधिकारात् उत्तरपदे इति लभ्यते । खिल्यनव्ययस्य' इत्यतः खितीत्यनुवृत्तम् । खितः प्रत्ययत्वात्तदन्तविधिः । तदाह । खिदन्ते उत्तरपदे इति । जनमेजय इति । जनान् एजयतीति विग्रहः । खशशित्वात्सार्व धातुकत्व शप्, गुणायादेशौ, पररूपम्, सुपेो लुकि, मुम् । वातशुनीति ॥ वार्तिकमिदम् । वात, शुनी, तिल, शर्ध, एषान्द्वन्द्वात्सप्तमी । अज, धेट्, नुद, जहाति, एषान्द्वन्द्वात्पञ्चमी । यथासङ्खयमन्वयः । वातमजा इति ॥ वातमजन्तीति विग्रह सुपा लुक मुम् । अथ शुनीन्धयतीति विग्रहे शुनीशब्दे उपपदे धेटः खशि शपि अयादेशे पररूपे शुनीधय इति स्थिते आह । खिल्यनव्ययस्य ॥ ह्रस्वः स्यादिति ॥ “इको हस्वोऽडयो गालवस्य' इत्यत तदनुवृत्तेरिति भाव । अत्र हस्वश्रुत्या अच इत्युपस्थितन्द्रष्टव्यम् । ततो मुमिति । पूर्व हस्वे कृते ततो मुमित्यर्थः । पूर्वं मुमि कृते तु अजन्तत्वाभावाद्रस्वो न स्यादिति भावः । शर्धञ्जहा माषा इति ॥ भाष्ये तु मृगा इति पाठ । शर्धः अपानद्वारे स्थितश्शब्द इति माधवादयः । अन्तर्भावितेति । तथाच शर्ध हापयतीतेि विग्रहः फलितः । भाष्ये तु ‘वात शुनी’ इति वार्तिके गधेष्विति पठितम् । नासिका ॥ नासिका, स्तन, अनयोः द्वन्द्वात्सप्तमी । धमा, धेट्, अनयोः द्वन्द्वात्पञ्चम्यर्थे षष्ठी । खशिति शेषः । यथासङ्खयमन्वये प्रासे आह । अत्र वार्तिकमिति ॥ धेटष्टित्वादिति । यद्यपि “टिड्ढ’ इत्यत्र टिदाद्यन्त यदन्त प्रातिपदिकमिति व्याख्यातं, तथापि टित्वस्यावयवे अचरितार्थत्वात् डीबिति हरदत्तः । अत्र यद्वक्तव्यन्तत् “पाघ्राधमाधेट्दृशश्शः' इत्यत्रोक्तम् । नासिकन्धम इति ॥ हस्वे कृते मुम् ।