पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७६४
सिद्धान्तकौमुद्याम्

नानुदात्तम् । कि द्विजः पचत्याहोखिद्भच्छति । ‘क्रिया-' इति किम् । साधनप्रश्रे मा भूत् । भक्त पचत्यपूपान्वा । 'प्रश्रे' किम् । किं पठति । “क्षेपोऽयम् । “अनुपसर्गम्’ किम् । केि प्रपचति उत प्रकरोति । “अप्रतिषिद्धम्’ किम् । कि कि द्विजो न पचति ॥ ३९५२ । लोपे विभाषा (८-१-४५) । किमोऽप्रयोग उक्त वा । देवदत्तः पचत्याहोखित्पठति ॥ ३९५३ । एहिमन्ये प्रहासे लट् (८-१-४६ । एहिमन्य इत्यनेन युक्त लडन्त नानुदात्त कीडायाम् । एहि मन्ये भक्त भोक्ष्यसे नहिभोक्ष्यसे भुक्त तत्त्वतिथिभि । 'प्रहासे' किम् । एहि मन्यसे ओदनं भोक्ष्य इति सुष्ठु मन्यसे । गल्यथैलोटा लट्-' (सू ३९५८) इत्यनेनैव सिद्धे नियमार्थो ऽयमारम्भः । एहिमन्येयुक्त प्रहास एव नान्यत्र । 'एहि मन्यसे ओदन भोक्ष्ये' ॥ ३९५४ । जात्वपूर्वम् (८-१-४७) । अविद्यमानपूर्व यज्जातु तेन युक्तं तिङन्तं नानुदात्तम् । जातु भोक्ष्यसे । “अपूर्वम्’ किम् । कट जातु करिष्यसि ॥ ३९५५ । किवृत्त च विदुत्तरम् (८-१-४८) । अविद्यमानपूर्व विदुत्तर यत्किवृत्त तेन युक्तं तिङन्त नानुदात्तम् । विभक्त्यन्त डतरडतमान्त किमो रूपं केिवृत्तम् । कश्चिद्भङ्गे । कतरश्चित् । कतमश्चिट्टा । “चिदुत्तरम् किम् । को भुङ्के । अपूर्वमित्येव । रामः किंचित्पठति ॥ ३९५६ । आहो उताहो चानन्तरम् (८-१-४९) । आहो उताहो इत्याम्या अपूर्वाभ्याम् युक्त तिडन्तं नानुदात्तम् । आहो उताहो। वा भुङ्गे । अनन्तरमित्येव । शेषे विभाषा वक्ष्यति । “ अपूर्व-' इति किम् । दिव आहो भुझे ॥ ३९५७ । शेषे विभाषा (८-१-५०) । आभ्या युतं व्यवहित तिडन्त वानुदात्तम् । आहो देवः पचति ॥ ३९५८ । गत्यर्थलोटा लण्न चेत्कारक सर्वान्यत् (८-१-५१) । गत्यर्थाना लोटा युक्तं तिङन्त नानुदात्तम् । यत्रैव कारके लोट् तत्रैव लडपि चेत् । आगच्छ देव प्राम द्रक्ष्यसि । उह्यन्तां देवदत्तेन शालय । रामेण भोक्ष्यन्ते । “गत्यर्थ-' किम् । पचव देव ओदनं भोक्ष्यसेऽन्नम् । “लोटा' किम् । आगच्छेर्देव ग्राम द्रक्ष्यस्येनम् । “लट्’ किम् । आगच्छ देव देव प्राम पश्यस्येनम् । “न चेत्’ इति किम् । आगच्छ देव प्रामं पिता ते ओदन भोक्ष्यते । “सर्वम्’ किम् । आगच्छ देव ग्रामं त्वं चाह च द्रक्ष्याव एनमित्यत्रापि निघातनिषेधो यथा स्यात् । यछोडन्तस्य कारकं तचान्यच लडन्तेनोच्यते ॥ ३९५९ । लोट् च (८-१-५२)। लोडन्तं गत्यर्थलोटा युक्तं नानुदात्तम् । आगच्छ देव ग्रामं पश्य । ‘गत्यर्थ-' इति किम्। पच देवौदनं भुडक्ष्वैनम्।‘लोट्’ किम् । आगच्छदेव ग्राम पश्यसि । न चेत्कारक सर्वान्य दित्येव । आगच्छ देव ग्रामं पश्यत्वेन रामः । सर्वग्रहणात्विह स्यादेव । आगच्छ देव ग्राम त्वं चाह च पश्याव। योगविभाग उत्तरार्थः ॥ ३९६० । विभाषितं सोपसर्गमनुत्तमम् (८-१-५३) । लोडन्त गाख्यथलाटा युक्त तडन्त वानुदात्तम् । आगच्छ दव प्राम प्रावंश । “ सोपसर्गम्' किम् । आगच्छ देव ग्राम पश्य । “अनुत्तमम्' किम् । आगच्छानि देव ग्रामं प्रविशानि ॥ ३९६१ । हन्त च (८ १-५४) । हन्तेत्यनेन युक्तमनुत्तम लोडन्त वानुदात्तम् । हन्त प्रविश । सोपसर्गमित्येव । हन्त कुरु । ‘निपातैर्यद्यदि-' (सू ३९३७) इति निघातप्रतिषेध । ‘अनुत्तमम्’ किम् । हन्त प्रभुञ्जावहै ॥ ३९६२ । आम एकान्तरमामन्त्रितमनन्तिकें (८-१-५५) । आमः परमेकपदान्त रितमामन्त्रितं नानुदात्तम् । आम् पचसि देवदत्त ३ । “एकान्तरम्’ किम् । आम्प्रपचसि देवदत्त३ ।‘आमन्त्रितम्'किम्। आम्पचति देवदत्तः । ‘अनन्तिके' किम्। आम्पचसि देवदत्त ॥