पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७६५
स्वरप्रकरणम् ।

३९६३ । यद्धितुपर छन्दसि (८-१-५६) । तिडन्त नानुदात्तम् । ‘उदसृजो यदङ्गिर' । उशन्ति हि' । आख्याख्यामि तु ते । 'निपातैर्यत्-' (सू ३९३७) इति 'हि च' (सू ३९४१) इति 'तुपश्य-' (सू ३९४६) इति च सिद्धे नियमार्थमेदम् । एतैरेव परभूतैर्योगे नान्यैरिति । जाय खारोहावैहि । एहीति गत्यर्थलोटा युक्तस्य लोहावेति लोडन्तख्य निघातो भवति ॥ ३९६४ । चनचिदिवगोत्रादितद्धितात्रेडितेष्वगते’ (८ १-५७) । एषु षट्सु परतस्तिडन्त नानुदात्तम् । देव पचति चन । देव. पचति चिन् । देवः पचतीव । देवः पचति गोत्रम् । देव पचतिकल्पम् । देव. पचतिपचति । “ अगते.' किम् । देव. प्रपचति चन ॥ ३९६५ । चादिषु च (८१-५८) । चवाहाहैवषु परषु तिङन्त नानुदात्तम् । देवः पञ्चति च खादति च । अगतेरित्येव । देव' प्रपचति च प्रखादति च । प्रथमख्य “चवायोगे-' (सू ३९६६) इति निघात. प्रतिषिध्यते द्वितीय तु निहन्यत एव ॥ ३९६६ । चवायोगे प्रथमा (८-१-५९) । चवेत्याभ्यां योगे प्रथमा तिड़िभक्तिननुदात्ता । गाश्च चारयति वीणा वा वादयति । 'इतो वा सातिमीमहे ' । उत्तरवाक्ययोरनुषञ्जनीयतिडन्तापेक्षयेय प्राथमिकी । 'योगे' किम् । पूर्व भूतयोरपि योगेऽनिघातार्थम् । प्रथमाग्रहण द्वितीयादेस्तिडन्तस्य मा भूत् ॥ ३९६७ । हेति क्षियायाम् (८-१-६०) । हयुक्ता प्रथमा तिड़िभक्तिनांनुदात्ता धर्मव्यतिक्रमे । स्वयं ह रथेन याति ३ । उपाध्याय पदाति गमयति । 'क्षियाशी –’ (सू ३६२३) इति प्लुतः ॥ ३९६८ । अहेति विनियोगे च (८-१-६१) । अहयुक्ता प्रथमा तिड्भिक्तिर्नानुदात्ता नानाप्रयोजने नियोगे क्षियाया च । त्वमह ग्रामं गच्छ । त्वमह रथेनारण्य गच्छ । क्षियायां स्वयमह रथेन याति३ । उपाध्याय पदाति नयति ॥ ३९६९ । चाहलोप एवेत्यवधारणम् (८-१-६२) । 'च' 'अह एतयोलॉपे प्रथमा तिभिक्तिर्नानुदात्ता । देव एव ग्राम गच्छतु । देव एवारण्य गच्छतु । ग्राममरण्य च गच्छत्वित्यथै. । देव एव प्राम गच्छतु । राम एवारण्यं गच्छतु । ग्रामं केवल मरण्य केवल गच्छत्वित्यर्थः । इहाहलोपः स च केवलार्थ । “ अवधारणम्’ किम् । देव केव भोक्ष्यसे । न कचिदित्यर्थः । अनवक्लप्तावेवकारः ॥ ३९७० । चवादिलोपे विभाषा (८-१-६३) चवाहाहैवाना लोपे प्रथमा तिट्टिभक्तिर्नानुदात्ता । चलेोपे । 'इन्द्र वाजेषु नोऽव' । शुका व्रीह्यो भवन्ति । श्वता गा आज्याय दुहन्ति । वालोपे । व्रीहिभिर्यजत । यवैर्यजेत ॥ ३९७१ । वैवावेति च छन्दसि (८-१-६४) । 'अहवै देवानामासीतू ' । “अय वाव हस्त आसीत्' ॥ ३९७२ । एकान्याभ्यां समर्थाभ्याम् (८-१-६५) । आभ्या युक्ता प्रथमा तिड़ि भक्तिननुदात्ता छन्दसि । “अजामेका जिन्वति ' । “प्रजामेका रक्षति' । तयोरन्यः पिप्पल स्वाद्वत्ति' । 'समर्थाभ्याम्' किम् । एको देवानुपातिष्ठत् । एक इात सङ्खयापर नान्यार्थम् ॥ ३९७३ । यदृत्तान्नित्यम् (८-१-६६) । यद्धृत्तात् पर तिडन्त नानुदात्तम् । यत्र पदे यच्छब्दः तद्यदृत्त यो भुङ्गे । यदद्रयङ्कायुर्वाति। अत्र 'व्यवहिते कार्यमिष्यते' ॥ ३९७४ । पूजनात्पूजित मनुदात्त काष्ठादिभ्य (८-१-६७) । पूजनेभ्यः काष्ठादिभ्यः पूजितवचनमनुदात्तम् । काष्ठाध्यापकः मलोपश्च वक्तव्य.' (वा ४७३५) । दारुणाध्यापक । अज्ञाताध्यापक । समासान्तोदात्त त्वापवादः । “एतत्समास इष्यते' । नेह । दारुणमध्यापक इति वृत्तिमतम् । पूजनादित्येव पूजितग्रहणे सिद्धे पूजितग्रहणमनन्तरपूजितलाभार्थम् । एतदेव ज्ञापकम् “अत्र प्रकरणे पञ्चमी