३१७७ ॥ ३शक थेषु तुमुन् (३-४-६५)
एघूपपदेषु धातोस्तुमुन्यान् । शक्रोति भोक्तुम् । एवं धृष्णोतीत्यादौ
अर्थग्रहणमस्तिनैव संबध्यते न । अस्ति भवति विद्यते वा
३१७८ । प षु । (३-४-६६)
पर्याप्तिः पूर्णता । तद्वाचिषु सामथ्र्यवचनेपूपपदेषु तुमुन्ख्यात् । पर्याप्ती
भोक्तुं प्रवीणः कुशलः पटुरित्यादि पयाप्तिवचनेषु' किम् । अलं भुक्त्वा अलमर्थेषु' किम् । पर्याप्त भुङ्गे । प्रभूततेह गम्यते न तु भोक्तुः सामथ्र्यम्
३१७९ कालसमयवेलासु तुमुन् । (३-३-१६७)
पर्यायोपादानमर्थोपलक्षणार्थम् । काला थेपूपपदेषु तुमुन्स्यात् । काल
समयो वेला अनेहा वा भोक्तुम् । प्रैषादिग्रहणमिहानुवर्तते तेनेह न । भूतानि कालः पचतीति वार्ता ।
इच्छार्थेष्विति ॥ 'इच्छार्थेषु लिङ्कलोटौ' इत्यतस्तदनुवृत्तेरिति भाव इच्छति भोक्तुः मिति । अत्र इच्छत्युपपदार्थस्य इच्छाया भ ोजनोद्देश्यत्वाभावेऽपि तुमुन् । इच्छार्थेष्वित्यर्थ प्रहणस्य प्रयोजनमाह । वष्टि वाञ्छति वेति । यद्यपि वशेः छान्दसेषु परिगणन धातुपाठे तथापि “वष्टि भागुरिः’ इति वार्तिकप्रयोगात् लोकेऽपि प्रयोग इति भाव शकधृष ॥ शकधृषज्ञा इति सूत्रमप्यक्रियोपपदार्थम् । शक्रोति भोक्तुमिति द्देश्यत्वाभावेऽपि तुमुन् । एवमिति धृष्णोति जानाति ग्लायति घटते आरभते लभते क्रमते उत्सहत अर्हति वा भोक्तुमित्युदाहार्यम् । अस्तिनैवेति न तु शकादिनेत्यर्थ कुत इत्यत आह । अनन्तरत्वादिति ॥ सन्निहितत्वादित्यर्थः । पर्याप्तिवचने पर्याप्ति इत्यस्य विवरणम् । पूर्णतेति ॥ अलमर्थेष्वित्यस्य विवरणम् । सामथ्र्यवचनेष्विति पर्याप्तो भोक्तुमिति ॥ अन्यूनसामथ्र्यवानित्यर्थः । वचनग्रहणस्य फलमाह् । प्रवीणा इत्यादि ॥ अलं भुक्त्वेति । अत्र अलमिति प्रतिषेधार्थकम् । नतु पर्याप्त्यर्थकमिति पर्याप्तं भुङ्गे इति ॥ बहुलमन्न भुङ्के इत्यर्थः । प्रभूततेति कालसमयवेलासु ॥ अक्रियोपपदेऽपि प्रवृत्त्यर्थमिदम् । ननु कालपर्यायाणा कतिपयाना प्रहणात्तदितरस्मिन् अनेह आदिशब्दे उपपदे न स्यादित्यत आह । पर्यायोपादानमर्थो- पलक्षणार्थमिति ॥ अनुवर्तते इति प्रैषतिसर्गसूत्रादिति भावः । भूतानीति पृथिव्यादिपञ्चभूतानि कालः पचति उपचयापचयादिविकार प्रापयति इति वार्ता लोकवृत्तान्त 84