पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६७२
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

कृ इत्यस्माद्धान्यविषयकादुन्योर्घञ्स्यात् । उत्कारो निकारो धान्यस्य विक्षेप इत्यर्थ । “धान्ये' किम् । भिक्षोत्करः । पुष्पनिकरः ।

         ३२०२ । यज्ञे समि स्तुवः । (३-२-३१)

समेत्य स्तुवन्ति यस्मिन्देशे छन्दोगा: स देशः संस्ताव । “यज्ञे किम् । संस्तवः परिचयः ।

          ३२०३ । प्रे स्रोऽयज्ञे । (३-३-३२)

अयज्ञे' इति छेदः । यज्ञे इति प्रकृतत्वात् । प्रस्तरः । अयज्ञे किम् । बर्हिषः प्रस्तरो मुष्टिविशेषः ।

        ३२०४ । प्रथने वावशब्दे । (३-३-३३)

विपूर्वात्स्तृणातेघेञ्स्याद्दृशव्दविषये प्रथने । पटस्य विस्तारः । “ प्रथने' किम । तृणविस्तर । * अशब्दे' किम् । ग्रन्थविस्तर ।

        ३२०५ । छन्दोनानि च । (३-३-३४)

स्र' इत्यनुवर्तते । विष्टारपङ्गिश्छन्दः । विस्तीर्यन्तेऽस्मिन्नक्षराणीत्यधि करणे घञ् । ततः कर्मधारय

       ३२०६ । छन्दोनान्नि च । (८-३-९४)

विपूर्वस्य स्तृणातेर्घज्यन्तस्य सस्य षत्वं स्याच्छन्दोनान्नि । इति षत्वम्

         ३२०७ । उदि ग्रहः । (३-३-३५)

लुप्तपञ्चमीकम् । तदाह । कृ इत्यस्मादिति ॥ यज्ञे समि स्तुवः ॥ समित्युपपदे तुधातोः र्घञ् स्यात् यज्ञविषये प्रयोग इत्यर्थः । अधिकरणे ल्युटोऽपवादः । सस्तव इत्यस्य विवरणम् । परिचय इति ॥ प्रे स्रोऽयज्ञे ॥ प्रकृतत्वादिति ॥ यज्ञे इति तु च्छेदो न भवति । पूर्वसूत्राद्यज्ञग्रहणानुवृत्यैव सिद्धेरित्यर्थ. । प्र इत्युपपदे स्तृधातोर्घनित्यर्थः । प्रस्तार इति ॥ इष्टकासन्निवेशविशेष इति याज्ञिका. । प्रथने वावशब्दे ॥ वौ अशाब्दे इति च्छेदः । तदाह । विपूर्वादिति ॥ छन्दो नात्रि च ॥ विपूर्वात् स्तृधातोर्घञ् स्यात् । अक्षरेयक्तात्मक छन्दसः सज्ञायामित्यर्थः । शब्दविषयत्वात् पूर्वेणाप्राप्ते वचनम् । कर्मधारय इति ॥ विष्टरश्चासौ पश्चेिति विग्रह इति भाव. । ननु 'सात्पदाद्यो.’ इति निषेधादादेशसकाराभावाच कथमिह षत्वमित्यत आह । छन्दोनानीति ॥ 'वृक्षासनयोर्विष्टर' इत्युत्तरं सूत्रम् । वेदप्रसिद्धसंज्ञाया विष्टरशब्दः निपात्यते इत्यर्थे । उदि ग्रहः ॥ उदित्युपपदे ग्रहधातो