पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६८८
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

समजादिभ्यः स्त्रियां भावादौ क्यप् स्यात्स चोदात्तः संज्ञायाम् । “ अजे क्यपि वीभावो नेति वाच्यम्' (वा १५९६) समजन्त्यस्यामिति समज्या सभा । निषीदन्त्यस्यामिति निषद्या आपण । निपतन्त्यस्यामिति निपत्या पिच्छिला भूमिः । मन्यतेऽनयेति मन्या गलपार्श्वसिरा । विदन्त्यनया विद्या । सुत्या अभिषवः । शय्या । भृत्या । ईयतेऽनया इत्या शिबिका ।

३२७७ । कृञ्जः श च । (३-३-१००)

कृञ्जय:’ इति योगविभागः । कृञ्जः क्यप्स्यात् । कृत्या । ३श च' । चात्क्तिन् । क्रिया । कृतिः ।

३२७८ । इच्छा । (३-३-१०१)

इषेर्भावे शो यगभावश्च निपात्यते । इच्छा । “ रिचर्यापरिसर्यामृगया टाट्यानामुपसंख्यानम्' (वा २२१५) । शो यक्च निपात्यते । परिचय पूजा । परिसर्या परिसरणम् । अत्र गुणोऽपि । 'मृग अन्वेषणे' चुरादावदन्तः । अतो लोपाभावोऽपि । ३श यकि णिलोपः । मृगया । अटतेः शे यकि ट्यशब्दस्य


शीड्, भृञ्, इण् नवाना समाहारद्वन्द्वात्पञ्चमी । 'अजेव्यैघञ्जपोः' इति प्राप्त आह । अजे क्यपीति । समजन्तीति । सङ्घीभवन्तीत्यर्थ. । समज्या सभेति । सम्पूवादज क्यप् । “समज्या तु सभा गोष्टी' इत्यमरः । निषद्येति । निपूर्वात्सदेः क्यप् । “सदिर प्रतेः’ इति षत्वम् । “ आपणस्तु निषद्यायाम्' इत्यमरः । निपत्येति । निपूर्वात्पतेः क्यप् । पिच्छिलेति । निम्रोन्नता भूमिरित्यर्थः । गलेति । “पश्चाद्वीवा सिरा मन्या' इत्यमरः । विद्येति । वेदशास्त्रादिरित्यर्थः । सुल्येति । सोमेज्या । षुञ्जः क्यप् । तुक् । इत्या शिबि केति । कोशो मृग्य । कृञ्जमः श च ॥ चात् क्यप् । शेति लुप्तप्रथमाकम् । कृअश्श स्यात् क्यप् चेति प्रतीयमानार्थः । एव सति कृतिरिति क्तिन्न स्यात्, स्त्रिया वाऽसरूपविद्य भावात् । तत्राह । कृञ्ज इति योगविभाग इति । तत्र क्यबिल्यनुवृत्ति मत्वा आह । कृञ्जः क्यप् स्यादिति ॥ कृत्येति । कृञ्जः क्यपि तुक्। श चेति द्वितीयखण्डोऽयम् । चात्क्तिन्निति ॥ क्यपः पूर्वेणैव खण्डेन सिद्धत्वादिति भावः । क्रियेति । कृञ्जश्शः ‘रिड् शयग्लिड़क्षु' इति रिड् । शित्वेन सार्वधातुकतया डित्वान्न गुण. । इयडिति भावः । इच्छा ।। भावे श इति । न त्वकर्तरि कारके चेत्यर्थः, निपातनसामथ्र्यादिति भावः । यगभाव श्रेति । अन्यथा शित्वेन सार्वधातुकत्वात् यक् स्यादिति भावः । परिचर्येति ॥ परि पूर्वाचरेः भावे श: यक् च । परिसर्येति ॥ परिपूर्वात्सृधातोश्शः । यक् च । अत्र शप्रत्ययस्य शित्वेन सार्वधातुकतया ङित्वात् गुणनिषेधमाशङ्कय आह । अत्र गुणोऽपीति।॥ परिसर्याशब्दे