पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/५

एतत् पृष्ठम् परिष्कृतम् अस्ति
चतुर्थ: पाद:]
६४७
बालमनोरमा

५८३ ॥ कुडिकम्प्योर्नलोपश्च । कुडि दाहे । कुडिर्देहः । कपिः ।

५८४ । सर्वधातुभ्यो मनिन् । कियत इति कर्म । चर्म । भस्म। जन्म । शर्म । स्थाम बलम् । इस्मन्निति ह्रस्वः । छद्म । सुत्रामा ।

५८५ । बृंहेर्नोच्छ् । नकारर्याकारः । ब्रह्म तत्त्वं तपो वेदो ब्रह्मा विप्रः प्रजापतिः

५८६ । अशिशकिभ्यां छन्दसि । अश्मा । शक्मा ।

५८७ । हृभृधृसृस्तृशृभ्य इमनिच् । हरिमा कालः । भरिमा कुटुम्बम् । धरिमा रूपम् । सरिमा वायुः । स्तरिमा तल्पम् । शरेिमा प्रसवः ।

५८८ । जनिमृड्भ्यामिमनिन् । जनिमा जन्म । मरिमा मृत्युः ।

५८९ । वेबः सर्वत्र । छन्दसि भाषायां चेत्यर्थः । वेमा तन्तुवायदण्डः । अर्धर्चादिः । सामनी वेमनी इति वृत्तिः ।

५९० । नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् धामन् । सर्वे सप्त अमी निपात्यन्ते । ग्रायतेऽनेनेति नाम । सिनोतेर्दीर्घः। सीमा । सीमानौ । सीमानः । पक्षे डाप् । सीमे । सीमा: । व्येज्योऽन्त्यर्योत्वं गुणः । व्योम । रौतेः । रोम । लोम | पाप्मा पापम् । धाम परिमाणं तेजश्च ।


चित्रगुच्छके' इति मेदिनी । 'कपिर्ना सिह्लके शाखामृगे च मधुसूदने' इति च । सर्वे धातुभ्यः ॥ कर्म व्याप्ये क्रियायाञ्च पुन्नपुसकयोर्मतम्' इति रुद्र । ‘चर्म कृत्तौ च फलके' इति मेदिनी । बृहेः ॥ 'ब्रह्म तत्त्वतपोवेदे न द्वयो पुसि वेधसि । ऋत्विग्योगभिदोर्विप्रे इति मेदिनी । अश्मेति ॥ भाषायामपीष्यते । छन्दसीति तु शकिनैवान्वेति । हृभृ ॥ शरिमेति ॥ 'शृ हिंसायाम् ।' एतच्छोज्ज्वलदत्त्तरीत्योक्तम् । दशपाद्यान्तु श्रृणातिर्नेष्यते । तत्स्थाने सृः प्रत्ययश्च दीर्घदिर्निच्छ ‘स्तृभृसृभ्य ईमन्’ इति छन्दोग्रहणञ्चानुवर्तितम् | युक्तञ्चैतत् । ‘पिपृतान्नो भरीमभिः । वातस्य सर्गो अभवत्सरीमणि । स्तीर्ण बर्हिः सृष्टरीमा जुषाणा। यस्यामतिर्भा अदिद्युतत्सवीमनिहिरण्यपाणिः ।' इत्यादिमन्त्राणां तद्भाष्यस्य चानुगुणत्वादुक्तप्रयोगाणा भाषायामदर्शनेन छन्दोऽनुवृत्तेर्न्याय्यत्वाच्च । अत एव 'वेज. सर्वत्र' इति सूत्रे सर्वत्रग्रहणं करिष्यति । नामन् सीमन् ॥ सर्वे इति ॥ मनिनन्ता इति शेषः । नामेति ॥ 'म्रा अभ्यासे' मलोप । सीमेति ॥ 'सीमसीमे स्त्रियामुभे' इत्यमरः । पाप्मेति ॥ पिबते पुमागमः । बाहुळकादन्यतोऽपि । 'यक्ष पूजायाम् ।’ 'क्षयः शोषश्च यक्ष्मा च' इत्यमरः । 'षू प्रेरणे ।' सोमा चन्द्रः । 'डु धाञ् ।' 'धाम देहे गृहे रश्मौ स्थाने


१. ध्यामन् इति क्वचित्पाठः ।