पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६९४
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

कारके संज्ञायामिति च निवृत्तम् | राज्ञा भुज्यन्त राजभाजन्नाः शालयः । नपुंसके भावे क्तः’ (सू ३०९०) ।

३२९० । ल्युट् च । (३-३-११५)

हसितम् । हसनम् । योगविभाग उत्तरार्थः ।

३२९१ । कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम्। (३-३-११६)

येन कर्मणा स्पृश्यमानस्य कर्तुः शरीरस्य सुखमुत्पद्यते तस्मिन्कर्मण्युप पदे ल्युट् स्यात् । पूर्वेण सिद्धे नित्यसमासार्थं वचनम् । पयःपानं सुखम् । ओदनभोजनं सुखम् । अत्र पानादेव सुखम् । चन्दनानुलेपनं सुखमितिवत् । सत्यम् । यत्र संस्पर्श विना सुखाभावस्तदर्थकः । यत्र साक्षात्परपरया वा सुखं तत्रेति यावत् । कर्तुरिति किम् । गुरोः रुन्नापनं सुखम् । नेह गुरुः कर्ता, किंतु कर्म । कर्मणीति किम् । तूलिकाया उत्थानं सुखम् । अन्नि कुण्डस्य सवन सुखम् । प्रत्युदाहरणष्वसमासः ।


स्नानीय चूर्णम् । करणे अनीयर् इति सिद्धवत्कृत्य ल्युटि उदाहरति । राज्ञेति ॥ कर्मणि ल्युडिति भाव. । नपुखसक भावे तक ॥ इदं सूत्र 'निष्ठा' इति सूत्रप्रस्तावे प्रागेव प्रसङ्गाद्याख्यात मूले । इह तु क्रमप्राप्तत्वात् पुनरुपन्यस्तम् । ल्युट् च ॥ चात् त्क्तः । नपुसके भावे इत्येव । ननु “नपुसके भावे त्क्तल्युटौ' इत्येव सिद्धे योगविभागो व्यर्थ इत्यत आह । योगेति । कर्मणि च येनेत्युत्तरसूत्रे ल्युट एवानुवृत्त्यर्थ इत्यर्थः । कर्मणि च येन ॥ सस्पर्शशब्द कृदन्तः । कृद्योगे कर्तुरिति कर्मणि षष्ठी । येनेति कर्तरि तृतीया । ‘उभयप्राप्तौ ' कर्मणि' इति नियमात् । येन कर्मणेति ॥ कर्तुः शरीरस्येति ॥ शरीरावच्छिन्नखेत्यर्थः। अर्धचदित्वाच्छरीरशब्द पुलिङ्गोऽपि । तेतन कर्तृण इत्येव भाव्यमिति निरस्तम् । ल्युट् स्यादिति ॥ भावे नपुसके इति शेषः । पूर्वेणेति ॥ 'ल्युट् च' इति पूर्वसूत्रेणेत्यर्थ । नित्येति ॥ । तस्य नित्यत्वात् । पयःपानं सुखमिति ॥ पयसा उपपदसमासाथामलयथ स्पृश्यमानशरीरावच्छिन्नस्य सुखजनकमित्यर्थः । उदाहरणान्तरमाह । ओदनभोजनं सुख मिति ॥ शङ्कतेत । अत्र पानादिति ॥ पानादेव सुखम्, न तु सस्पर्शनेनेत्यर्थः । भोजना दल्याप द्रष्टव्यम् । तत्र दृष्टान्तमाह । चन्दनानुलेपनं सुखमितिवदिति ॥ तथा च पयसा ओदनेन च स्वरूपतस्तावद्देवदत्तसुखाभावात् कथमिद उदाहरणमिति भावः । समा यत्र संस्पर्शमिति सुखं नोत्पद्यते तादृशविषयोपलक्षण संस्पर्शग्रहणमित्यर्थ । फलितमाह । यत्रेति ॥ स्पर्शनेन यत्र सुख यथा चन्दनानुलेपन सुखमिति, यत्र संस्पर्शपूर्वकपानादेर्वा सुखम् । यथा पयःपान सुखमित्यादौ, तत्र सर्वत्रास्य प्रवृत्तिरित्यर्थः । तूलिकाया उत्थानं सुखमिति । अत्र