३३१० । षात्पद्ान्तात । (८-४-३५)
नख्य णो न । निष्पानम् । सर्पिष्पानम् । *षात्’ किम् । निर्णय पदान्तात्' किम् । पुष्णाति । पदे अन्तः पदान्तः इति सप्तमीसमासोऽयम् । तेनेह न । सुसर्पिष्केण
३३११ । आवश्यकाधमण्र्ययोर्णिनिः । (३-३-१७०)
अवश्यंकारी । शतं दायी ।
३३१२ । कृत्याश्च । (३-३-१७१)
आवश्यकाधमण्र्ययोरित्येव । अवश्यं हरिः सेव्यः । शतं देयम् ।
३३१३ । क्तिच्क्तौ च संज्ञायाम् । (३-३-१७४)
धातोः क्तिच्क्तश्च स्यादाशिषि संज्ञायाम् । “ततुत्र- (सू ३१६३) इति नेट् । भवताडूति
३३१४ । न क्तिचि दीर्घश्च । (६-४-३९)
अनिटां वनतितनोत्या दीनां च दी न स्तः क्तिचि परे यन्तिः । रन्तिः । वन्तिः । तन्ति : ।
३३१५ । सनः क्तिचि लोपश्चास्यान्यतरस्याम् । (६-४-४५)
सनोतेः क्तिच्यात्वं वा ख्यालोपश्च वा । सनुतात् । सातिः। सतिः । सन्तिः । देवा एनं देयासुः देवदत्तः ।
इत्युत्तरमिद वार्तिकम् । ईषडुस्सुविलेयेव । खलोऽपवादः । इति खलर्थाः प्रत्ययाः । आवश्यका धमण्र्ययोर्णिनिः ॥ कर्तरि कृदित्येव । अवश्यङ्कारीति ॥ अवश्यमित्यव्ययम् । शतं दायीति ॥ “ अकेनोर्भविष्यदाधमण्र्ययोः' इति षष्ठी न । कृत्याश्चेत्यादि । स्पष्टम् । क्तिध्ल्क्तौ च ॥ आशिषीति ॥ आशिषि लिङ्कलोटौ' इत्यतस्तदनुवृत्तेरिति भावः । भवतादिति ॥ आशिषि लोट् । भूतिरित्यस्य विवरणमिदम् । कर्तरि क्तिच् । न क्तिचि दीर्घश्च ॥ अनिटामिति ॥ “ अनुदात्तोपदेश' इति सूत्रमिहानुवर्तते इति भावः । रान्ति रिति । अत्र 'श्रयुक’ किति' इत्यस्याप्रवृत्ते “तितुत्र' इत्येव नेट् । भूतिरित्यत्र तु परत्वात् श्रयुकः किति' इत्येवोचितम् । सन ॥ आात्वमिति ॥ 'वड्नारजुनासकस्यात्' इत्यतः स्तदनुवृत्तरिति भावः । लोपश्रेति ॥ अन्यस्य नकारस्येति ३शष । ते उदाहरिष्यन्नाह । देवा एनं देयासुरिति ॥ आशीर्लिङ् । देवदत्त इति ॥ तयोरेवेति कर्मणि क्तः । क्तिचा बाधा मा भूदिति त्क्तविधि । अन्यथा अपवादेन [त्कचवा त्ता बाध्येत । वाऽसरूप