पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७०२
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

किति' (सू २३८१) इति नित्यमिडभावः पूर्वविप्रतिषेधेन । स्वृत्वा । सूत्वा ।

३३२१ । क्त्वि स्कन्द्स्यिन्दोः । (६-४-३१)

एतयोनेलोपो न ख्यात्क्त्वि परे । स्कन्त्वा । ऊदित्वादिड़ा। स्यन्त्वा स्यन्दित्वा ।

३३२२ । न क्त्वा सेट् । (१-२-१८)

सेट् क्त्वा किन्न स्यात् । शयित्वा । “ सेट् किम् । कृत्वा ।

३३२३ । मृडमृद्गुधकुषशिवद्वसः क्त्वा । (१-२-७)

एभ्यः सेट् क्त्वा कित् । मृडित्वा । “ङ्किशः क्त्वा-' (सू ३०४९) इति वेट् । छिशित्वा-कुिष्ठा । उदित्वा । उषित्वा । रुदविद्-' (सू २६०९) इति कित्त्वम् । रुदित्वा । विदित्वा । मुषित्वा । गृहीत्वा ।

३३२४ । नोपधात्थफान्ताद्वा । (१-२-२३)

सेट् क्त्वा कित्स्याद्वा । श्रथित्वा-श्रन्थित्वा । गुफित्वा-गुम्फित्वा । नोपधात्' किम् । । कोथित्वा । रेफित्वा ।


इण्निषेध एव प्रवर्तते इति भावः । क्त्वि स्कन्दिस्यन्दोः ॥ नलोपो नेति ॥ 'श्रान्न लोप' इत्यतो नलोप इति “नाश्चेः पूजायाम्' इत्यतो नेति चानुवर्तते इति भावः । क्त्वीति ॥ खकाशब्दस्य सप्तम्येकवचनम् । आत इति योगविभागादालोपः । स्कन्त्वेति ॥ स्कन्दिर धातो रूपम् । अनुदात्तोपदेशत्वान्नेट् । स्यन्दू धातो काप्रत्यये आह । ऊदित्वादिङ्केति ॥ न वक्त्वा सेट् ॥ किन्नेति ॥ “असयोगालिट्कित्’ इत्यतः किदित्यनुवृत्तेरिति भावः । शयित्वा इति । कित्वाभावात् न गुणनिषेधः । मृडमृद् ॥ ‘न का सेट्’ इति निषेधस्या पवाद. । मृडित्वेति ॥ कित्त्वान्न लघूपधगुणः । मृदित्वेत्याद्यप्युदाहार्यम् । कुिश इति ॥ क्रुिश हिसायाम्' दिवादौ । ततः खाप्रत्ययस्य ‘किशः कानिष्ठयोः’ इति वेडित्यर्थः । ‘शिशू विबाधने इत्यस्य तु ऊदित्वाद्वेट् । उदित्वेति ॥ वदधातोः काप्रत्यय.। ‘वचिस्वपि’ इति सम्प्र सारणम् । उषित्वेति ॥ वसधातोः का 'वसतिक्षुधो.' इति इट् सम्प्रसारणम् । * शासिवसि इति ष. । रुदविद इति कित्वमिति ॥ “न का सेट्’ इति निषेधस्यापवाद इति भावः । नोपधात्थफान्ताद्धा ॥ थफौ अन्तौ यस्येति विग्रहः । ‘न का सेट्’ इति नित्यनिषेधे प्राप्त विकल्पोऽयम् । कित्वे सति नलोपः । तदभावे तु नेति मत्वा आह । श्रथित्वेत्यादि । कोथित्वा । रेफित्वेति ॥ कुथ पूतीभावे, रिफ कत्थनयुद्धहिसादानेषु । इह “रलो व्युपधात्