पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
७०३
बालमनोरमा

३३२५ । वञ्चिलुञ्च्यूतश्च । (१-२-२४)

सेट् क्त्वा किद्वा । वचित्वा-वञ्चित्वा । लुचित्वा-लुचित्वा । ऋतित्वा-अतित्वा ।

३३२६ । तृषिमृषिकृषेः काश्यपस्य । (१-२-२५)

एभ्यः सेट क्त्वा किद्वा । तृषित्वा-तर्षित्वा । मृषित्वा मर्षित्वा । कृषित्वा-कर्षित्वा । “रलो व्युपधान्-' (सू २६१७) इति वा कित्त्वम् । द्युतित्वा—द्योतित्वा । लिखित्वा-लेखित्वा । “रल: किम् । सेवित्वा । व्युपधात्' किम् । वर्तित्वा । । हलादेः किम् । एषित्वा । “सेट्' किम् । भुक्त्वा । वसतिक्षुधोरिट्’ (सू ३०४६) उषित्वा । क्षुधित्वा-क्षोधित्वा । “अचे पूजायाम्' (सू ३०४७) इति नित्यमिट् । अचित्वा । गतौ तु । अक्त्वेत्यपि । लुभित्वा-लोभित्वा । “लुभो विमोहने' (सू ३०४८) इतट् । अविमोहने तु लुब्ध्वा । ३३२७ । जूत्रश्च्योः क्त्वि । (७-२-५५)


इति विकल्पोऽपि न भवति नोपधग्रहणसामथ्र्यात् । वञ्चिलुञ्च्यूतश्च ॥ 'न खा सेट् इत्यस्यापवादः । कित्त्वविकल्पान्नलोपविकल्पः । ऋतेरुदाहरति । ऋतित्वा-अर्तित्वेति ॥ कित्त्वविकल्पाछघूपधगुणनिषेधविकल्पः । ऋतिस्सौत्रो धातुः घृणायाम् । तस्यार्धधातुकविषये ऋतेरीयड्’ इत्यस्य विकल्पनात् तदभावे कित्वमिह विकल्प्यते । तृषिमृषि ॥ *न का सेट्’ इत्यस्यापवादः । रल इति । उकारोपधात् इकारोपधाच रलन्तात् हलादेः परः सन् खका च सेटौ वा किताविति व्याख्यात प्राक् । रल् प्रत्याहार । वर्तित्वेति ॥ 'वृतु वर्तने इत्यस्य रूपम् । एषत्वात ॥ इषधातोः रूपम् । इह हलादित्वाभावान्न कित्त्वविकल्प । किन्तु “न का सेट्' इति नित्यमेव कित्वाभावान्न गुणनिषेध । वसधातोः क्षुधधातोश्च अनुदात्तोपदेशत्वात् इण्निषेधे प्राप्त तदपवादं स्मारयति । वसतिक्षुधोरिडिति ॥ उषि त्वेति ॥ 'मृडमृद' इति कित्वात् “वचिस्वपि' इति सम्प्रसारणम् । “शासिवसि' इति षः । अञ्चुधातोः काप्रत्ययस्य “उदितो वा' इति इड़िकल्पे प्राप्त आह । अञ्चेः पूजायामिति ॥ गतौ त्विति ॥ तत्र 'उदितो वा' इति वेट्कत्वात् । लुभित्वा-लोभित्वेति ॥ व्याकुलीकृत्येत्यर्थः । 'लुभ विमोहने' । तुदादिः । विमोहन व्याकुलीकरणमिति वृत्ति । 'रलो व्युपधात्' इति कित्त्वविकल्प । तत्र “तषसह' इति इड़िकल्पे आह । लुभो विमोहने इतीडिति ॥ नित्यमिति शेषः । विमोहनार्थाल्लुभः कानिष्टयोरिट् स्यात् न तु गाध्यै इति व्याख्यात प्राक । अविमोहने त्विति ॥ गाध्यें तु “तीषसह' इति इड़िकल्पे लुभित्वत्यपि भवति । अभिकाङ्कयेत्यर्थ. । विमोहने तु लुब्ध्वत्यपपाठः । जूवश्च्यो १. अत्र कचित्तालव्यान्तपाठो दृश्यते-कृशित्वा-कर्शित्वेति चेोदाहृतम् ।