पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७०६
[उत्तरकृद्न्त
सिद्धान्तकौमुदीसाहेिता

अनुदात्तोपदेशानां वनतितनोत्यादीनामनुनासिकलोपो वा स्याल्ल्यपि । व्यवस्थितविभाषेयम् । तेन मान्तानिटां वा, नान्तानिटां वनादीनां च नित्यम् । आगत्य-आगम्य । प्रणत्य-प्रणम्य । प्रहत्य । प्रमत्य । प्रवत्य । वितत्य । “अदो जग्धिः-' (सू ३०८०) । “ अन्तरङ्गानपि विधीन्बहिरङ्गो ल्यब्बाधते' ।


इणः परत्वाभावात् । तदाह । इह षत्वान्नेति ॥ षत्वे एकादेशस्यासिद्धत्वे प्रासङ्गिकमुदाहृत्य प्रकृते ल्यपि तुग्विधावसिद्धत्वमुदाहरति । अधीत्येति ॥ 'इड् अध्ययने' नित्यमधिपूर्व तस्मात् को ल्यप् । प्रेत्येति ॥ प्रपूर्वादिष्धातो. को ल्यप् । इहोभयत्र सवर्णदीर्घस्य आदुणस्य चासिद्धत्वात् “हस्वस्य पिति' इति तुक् । एकादेशस्यासिद्धत्वाभावे तु हस्वाभावातुक् न स्यात् । तदाह । ह्रस्वस्येति तुगिति ॥ वा ल्यपि ॥ 'अनुदात्तोपदेशवनतितनोत्यादीना मनुनासिकलोपः’ इत्युत्तरमिद सूत्रम् । तदाह । अनुदात्तत्यादि । अनुदात्तोपदेशाना वनतितनोत्यादीनाञ्च अनुदात्तोपदेशेत्युक्तो नलोपेो ल्यपि वा स्यादित्यथे । व्यवस्थितविभा षेति ॥ व्याख्यानादिति भावः । मान्तानिटां वेति । गम्, नम्, रम्, यमा पाक्षिको मलोप इत्यर्थः । नान्तेति ॥ नान्तेषु मन्यहनावनिटौ तयोः वनादीनाञ्च अनुदात्तोपदेशेल्यनेन नलोपो नित्य स्यादित्यर्थ . । नान्तानिटामिति बहुवचनन्तु प्रयोगबहुत्वाभिप्रायम् । मान्तानामुदा हरति । आगत्येति ॥ गमेरनुनासिकलोपे तुक् । प्रणयेति ॥ नमेरनुनासिकलोपपक्षे तुक् । विरम्य, विरल्य, प्रयत्य, प्रयम्य, इत्यप्युदाहार्यम् । नान्तयोरुदाहरति । प्रहत्य । प्रमत्येति ॥ हनेो मन्यतेतश्च नित्य नलोपः । प्रवत्येति ॥ वनर्नित्यं नलोप, तुक् । वितत्येति ॥ तनोतेर्नित्यं नलोपः, तुक् । भाष्ये तु ‘वा ल्यपि’ इति सूत्रन्न दृश्यते । ‘अनुदात्त' इति सूत्रे ‘अनुदात्तोपदेशेऽनुनासिकलोपो ल्यपि च' इति ‘वाम.’ इति च वार्तिक पठितम् । ल्यपि च अनुदात्तोपदेश इति नलोपो भवति । मकारान्ताना तु वेल्यर्थः । अथ प्रजग्ध्येत्युदाहरणं मनसि निधाय तत्र अदधातोः केो ल्यपि “अदो जग्धिल्र्यसिकिति' इति जग्ध्यादेशविधिं स्मारयति । अदो जग्धिरिति ॥ आदेशे इकार उञ्चारणार्थ । ननु विधायेल्यत्र 'दधातेर्हिः इति हिभावः प्राप्रेोति । न च तस्य तादौ किति विधानात् ल्यपि कृते कथ तत्प्राप्ति । अलाश्रयावधा स्थानिवत्वाभावादिति वाच्यम् । परस्मादपि ल्यपः प्रागेवान्तरङ्गत्वात् हिभावः प्रवृत्तदुर्निवारत्वात् । तथा प्रदायेत्यत्र तादौ किति विहितमित्व ल्यपः प्रा प्राप्नोति । तथा प्रखन्येत्यत्र 'जनसनखना सन्झलोः' इति झलादिलक्षणमात्वं ल्यपः प्रागेव प्राप्नोति । तथा “दद्यतिस्यतिमास्थामिति किति' इति इत्वं ल्यपः प्रागेव प्राप्तोति । तथा प्रक्रम्येयत्र 'क्रमश्च कि' इति झलादौ कि विहितमुपधादीर्घत्व ल्यपः प्रागेव प्राप्रेोति । तथा आपृच्छय प्रदीव्येत्यत्र 'च्छेोः' इति शठौ झलादित्वलक्षणौ ल्यपः प्रागेव स्याताम् । तथा प्रदीव्येत्यत्र वलादिलक्षणः इट् ल्यपः प्रागेव प्राम्रोतीत्याशङ्कय आह । अन्तरङ्गानपीति ॥ कुत एतदित्यत आह । जग्धिविधाविति ॥ ‘अदेश जग्धिस्ति किति' इत्येतावतैव प्रजग्ध्यं