पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
७०७
बालमनोरमा

जग्धिविधौ ल्यव्यग्रहणान् । तेन हित्वदत्वात्वेत्वदीर्घत्वशूठिटो ल्यपि न । विधाय । प्रदाय । प्रखन्य । प्रस्थाय । प्रक्रम्य । आपृछ-प । प्रदीव्य ।

३३३५ । न ल्यपि । (६-४-६९)

ल्यपि परे घुमास्थादेरीत्वं न । धेट् । प्रधाय । प्रमाय । प्रगाय । प्रपाय । प्रह्वाय । प्रसाय । मीनातिमिनोति-' (सू २५०८) इत्यात्त्वम् । प्रमाय । निमाय । उपदाय । “विभाषा लीयतेः (सू २५०९) विलाय उत्तार्य । विचार्य

३३३६ । ल्यपि लघुपूर्वात् । (६-४-५६)

लघुपूर्वात्परस्य णेरयादेशः स्याल्ल्यपि । विगणय्य भिदय्य । लघुपूर्वात्' किम् । संप्रधार्य ।

३३३७ । विभाषाऽऽपः । (६-४-५७)

आप्नोतेर्णेरयादेशो वा स्याल्ल्यपि । प्रापय्य-पाप्य ।

३३३८ । क्षियः । (६-४-५९)

क्षियो ल्यपि दीर्घः स्यात् । प्रक्षीय ।


इत्यत्रापि ल्यपः प्रागेवान्तरङ्गत्वात् जग्ध्यादेशस्सिद्ध. । अतो ल्यब्ग्रहणं “अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब्बाधते' इति ज्ञापयति । एवञ्च अन्तरङ्गजग्ध्यादेशापेक्षया प्राबल्याल्ल्यपि कृते सति तकारादित्वलक्षणजग्धिभावस्याप्रसत्तेः जग्धिविधौ ल्यञ्ग्रहणमथैवदिति भावः । तेनेति । हित्व दत्व आत्वम् इत्व दीर्घत्व शूठौ इट् च ल्यपि नेल्यर्थः । न ल्यपि ॥ ‘धुमास्थागापाजहा तिसाम्’ इत्यनुवर्तते । “ईद्यति' इत्यतः “ईत्' इति च । तदाह । यपि परे इत्यादि ॥ धेडिति । प्रकृतिप्रदर्शनम् । प्रधायेति ॥ “आदेचः’ इत्यात्त्वम् । प्रपायेति ॥ निपीयेति तु 'पीड् पाने' इत्यस्य रूपम् । प्रसायेति ॥ 'षोऽन्तकर्मणि' इत्यस्य रूपम् । लीडः को ल्यपि आत्वविकल्प स्मारयति । विभाषा लीयतेरिति ॥ ििणलोप इति ॥ उत्पूर्वात् तृधातोर्णिवि वृद्वैौ रपरत्वे उत्तारि इति रूपम् । विपूर्वाचरधातोर्णिवि उपधावृद्धौ विचारीति रूपम्, ताभ्या ल्यपि णिलोप इत्यर्थः । ल्यपि लघुपूर्वात् ॥ 'णरनिटि' इत्यतो खका णेरिति ‘अयामन्ताल्वाय्य' इत्यतः अय् इति चानुवर्तते । तदाह । लघुपूर्वादिति ॥ लघुः पूर्वो यस्माद्वर्णादिति विग्रह, णिलोपापवाद । विगणय्येति ॥ “गण सङ्खयाने' चुरादि कथादिरदन्तः । तस्माण्णिच् । अतो लोपः । को ल्यपि णेरयादेशः । प्रबेभिदय्येति ॥ भिदधातोर्यडि द्वित्वम् । “गुणेो यड्लुकोः' इत्यभ्यासस्य गुणः । जश्त्व ‘यस्य हल.’ इति यकारलोपः, अतो लोप , को ल्यपि णेरयादेशः । विभाषाऽऽपः ॥ लघुपूर्वत्वाभावात् पूर्वेण अप्राप्त विभाषेयम् । क्षियः ॥ “ल्यपि लघुपूर्वात्' इत्यतो ल्यपीति “युप्लुवोदर्दीर्घः