पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७०८
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

३३३९ । ल्यपि च । (६-१-४१)

वेत्रो ल्यपि संप्रसारणं न स्यात् । प्रवाय ।

३३४० । ज्यश्च । (६-१-४२)

प्रज्याय ।

३३४१ । व्यश्च । (६-१-४३)

उपव्याय ।

३३४२ । विभाषा परेः । (६-१-४४)

परव्यञ्जपा वा संप्रसारणं स्याल्ल्यपि । तुकं बाधित्वा परत्वात् “हलः (सू २५५९) इति दीर्घः । परिवीय-परिव्याय । कथम् “मुखं व्यादाय स्वपिति' नेत्रे निमील्य हसति' इति । व्यादाननिमीलनोत्तरकालेऽपि स्वाप हासयोरनुवृत्तेस्तदंशविवक्ष्या भविष्यति ।

३३४३ । आभीक्ष्ण्ये णमुल्च । (३-४-२२)

पानःपुन्य चात्य पूवावषय णमुल्स्यात् क्त्वा च । द्वित्वम् । स्मारस्मार


छन्दसि ? इत्यतो दीर्घ इति चानुवर्तते । तदाह । क्षियो लयपीति ॥ ल्यपि च ॥ “वेञ्जः’ इति सूत्रमनुवर्तते । “न सम्प्रसारण सम्प्रसारणम् ' इत्यतः न सम्प्रसारणमिति च । तदाह । वेजो ल्यपीत्यादि ॥ प्रवायेति ॥ “वेञ् तन्तुसन्ताने' खका ल्यप् । आदेच उपदेशे' इत्यात्त्वम् । इह 'ग्रहिज्यावयिव्यधिवष्टिविचति' इति सम्प्रसारणन्न । ज्यश्च ॥ ज्याधातोल्यैपि सम्प्रसारणन्न स्यादित्यर्थः । प्रज्यायेति ॥ इह 'ग्रहिज्यावयि इति सम्प्रसारणन्न । व्यश्च ॥ वेओो ल्यपि सम्प्रसारणन्नेत्यर्थ । उपव्यायेति ॥ “व्यञ् सवरणे ' को ल्यपि “ आदच' इत्यात्त्वम् । 'ग्राहिज्यावयि ? इति सम्प्रसारणन्न । विभाषा परेः ॥ “वेजः’ इति ल्यपीति सम्प्रसारणमिति चानुवर्तते । तदाह । परव्येंञ्जः इति ॥ परिपूर्वाञ्चेञ्जः को त्यपि यकारस्य सम्प्रसारण पूर्वरूपे च कृते परि वि य इति स्थिते आह । तुकमिति । कथमिति ॥ खापकाल एव मुखव्यादान हासकाल एव नेत्रनिमीलनम् । एवञ्च व्यादाननेत्रनिमीलनयाः स्वापहासपूर्वकालकत्वाभावात् कथ त्वाप्रत्यय इत्याक्षेपः । समाधत्ते व्यादानेति । यद्यपि व्यादाननिमीलनोत्पत्युत्तरकालके स्वापहसने, न तु तत्पूर्वकालके । तथापि व्यादानोत्पत्त्युत्तरकाले निमीलनोत्पत्युत्तरकालेऽपि स्वापहासौ अनुवर्तते । तत्र स्वापो त्पत्तिकालीनव्यादानस्य हासोत्पत्तिकालीननिमीलनस्य च तत्कालीनस्वापहासपूर्वकालकत्वाभावे ऽपि तदुत्तरकालानुवृत्तस्वापहासापेक्षया पूर्वकालकत्वसत्वात् काप्रत्यय इत्यर्थ. । “मामुपल्य तु कौन्तेय पुनर्जन्म न विद्यते' इत्यादौ तु समानकर्तृकताविघाताय स्थितस्येत्याद्यद्याहार्यम् । आभीक्ष्ण्ये णमुलु च ॥ समानकर्तृकयोः पूर्वकाल इति काविध्युत्तरमिद सूत्रम् । तदाह । पूर्वविषये इति । यद्यपि वाऽसरूपविधिना का सिद्धः । स्त्र्यधिकारात्प्रागेव वाऽसरूपविधि