पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५०
[उणादिषु
सिद्धान्तकौमुदीसहिता

६१२ । अशित्रादिभ्य इत्रोत्रौ । अशित्रम् । वहित्रम् । धरित्री मही । त्रैड् एवमादिभ्य उत्रः । त्रोत्रं प्रहरणम् । वृञ् वरुत्रं प्रावरणम् ।

६१३ । अमेर्द्विषति चित् । अमित्रः शत्रुः ।

६९४ । आः समिण्निकषिभ्याम् । संपूर्वादिगो निपूर्वात्कषेश्च आ स्यात् । । स्वरादित्वादव्ययत्वम् । समया । निकषा ।

६१५ । चितेः कणः कश्च । बाहुलकादगुणः । चिक्कणं मसृणं स्रिग्धम् ।

६१६ । सूचेः स्मन् । सूक्ष्मम् ।

६१७ । पातेर्डुम्सुन् । पुमान् ।

६१८ । रुचिभुजिभ्यां किष्यन् । रुचिष्यमिष्टम् । भुजिष्यो दासः ।

६१९ । वसेस्तिः । वस्तिर्नाभेरधो द्वयोः । वस्तयः स्युर्दशासूत्रे । बाहु लकात् शासः शास्तिः राजदण्डः । विन्ध्याख्यमगमस्यतीत्यगस्तिः । शक न्ध्वादिः|

६२० । सावसेः । स्वस्ति । स्वरादिपाठाद्व्ययत्वम् ।

६२१ । वौ तसेः । वितस्तिः ।

६२२ । पदिप्रथिभ्यां नित् । पत्ति: । प्रथितिः । तितुत्रेष्वग्रहादीनाम् (वा ४३१३) इतीट् ।

६२३ । दृणातेर्हृस्वश्च । दृतिः ।


न च तत एव प्रज्ञाद्यणा सिद्धे किमनेनेति वाच्यम् । स्वरे विशेषात् । धरित्रीति ॥ गौरा दित्वान्डीष् । अमेः ॥ इत्र एवानुवर्तते नोत्रः । आः समिण् ॥ समयानिकषाशब्दौ समीपवाचकौ । बाहुलकादृषेः दोषा । दिवेर्गुणाभावश्च । दिवा । स्वदेर्धश्च । स्वधा इत्यादि । अमरोक्तमाह । चिक्कणमिति ॥ सूचेः ॥ सूक्ष्ममिति ॥ णिलोपे कृते कुत्वादि । ‘सूक्ष्मं स्यात्कण्टकेऽध्यात्मे पुस्यणौ त्रिषु चाल्पके' इति मेदिनी । पातेः ॥ डित्वाट्टिलोपः । उकार नकारयोस्तु फल ‘पुसोऽसुड्’ इति सूत्रेऽवोचाम । यत्तुज्ज्वलदत्तेनोक्तम् । उकार उच्चारणार्थं इति । तदाकरविरुद्धम् । 'पुसोऽसुड्’ इति सूत्रे न्यासरक्षिताभ्यां पुनातेर्मक् सुन् हृस्वश्चेति पठितम् । पूञो डुम्सुन्नित्यन्ये । भाष्ये तु सूतेः सप्प्रसवे पुमानित्युक्तम् । ‘उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः’ इति तु तत्त्वम् । रुचिभुजि ॥ 'भुजिष्यस्तु स्वतन्त्रे च हस्तसूत्रक दासयोः । स्त्रिया दासीगणिकयोः' इति मेदिनी । वसेस्तिः ॥ “वस्तिर्द्वयोर्निरूढे नाभ्यधो भूमिदशासु च' इति मेदिनी । 'अगस्तिः कुम्भयोनौ च वङ्गसेनतरौ पुमान्’ इति च । सावसेः ॥ अस भुवि बहुलवचनान्न भूभावः । वौ तसेः ॥ ‘अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः' इत्यमरः । 'स्त्रीपुंसयोर्वितस्तिः स्यात्' इत्यमरमाला । दृणातेः ॥ “दृतिश्चर्मपुटे