पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७३०
सिद्धान्तकौमुद्याम्

कवर्गधकारपरे अनुदात्तेऽति परं एड् प्रकृत्या यजुषि । “अय सो अन्निः’ । 'अयं सो अध्वर ’ । “ अनुदात्ते' किम् । “अधोऽग्रे रुद्रे' । अग्रशब्द आद्युदात्तः । “कुधपरे' किम् । सोऽयमझिमन्त.' ॥ ३५२४ । अवपथासि च (६-१-१२१) । अनुदात्त अकारादौ अवपथा शब्दे परे यजुषि एडु प्रकृत्या । * त्री रुद्रेभ्यो अवपथा ' । वपेस्थासि लडि ‘तिड्डतिड (सू ३९३५) इत्यनुदात्तत्वम् । “ अनुदात्ते' किम् । 'यदुद्रेभ्योऽवपथ ' । 'निपातैर्यद्यदि (सू ३९३७) इति निघातो न ॥ ३५२५ । आडोऽनुनासिकश्छन्दसि (६-१-१२६) । आडो ऽचि परेऽनुनासिकः स्यात् । स च प्रकृत्या । ' अभ्र आा अपः ' । “गभीर ऑ उग्रपुत्रे ईषा अक्षादीना छन्दसि प्रकृतिभावो वक्तव्यः’ (वा ३६८५) । “ ईषा अक्षेो हिरण्ययः । ज्या इयम्' । 'पूषा अविष्ट' ॥ ३५२६ । स्यश्छन्दसि बहुलम् (६-१-१३३) । स्य इत्यस्य सोलॉपः स्याद्धलि । “एष स्य भानु' ॥ ३५२७ । हखाचन्द्रोत्तरपदे मन्त्रे (६-१-१५१) । हस्वात्परस्य चन्द्रशब्दस्योत्तरपदस्य सुडागमः स्यान्मन्त्रे । ‘हरिश्चन्द्रो मरुद्भण' । सुश्चन्द्र दस्म ॥ ३५२८ । पितरामातरा च छन्दसि (६-३-३३) । द्वन्द्वे निपात । 'आ मा गन्तां पितरा मातरा च' । चाद्विपरीतमपि । 'न मातररापितरा नू चिदिष्टौ' । 'समानस्य छन्दस्यमूर्ध प्रभृत्युदर्केषु' (सू १०१२) । समानस्य स. स्यान्मूर्धादिभिन्न उत्तरपदे । सगभ्र्ये । 'छन्दसि त्रिया बहुलम्' (वा ३९९४) । विष्वग्देवयोरद्यादेश । *विश्वाची च घृताची च ' । “देवद्रीचीं नयथ देवयन्त.' । 'सा कद्रीची' ॥ ३५२९ । सध मादस्थयोश्छन्दसि (६-३-९६) । सहस्य सधादेशः स्यात् मादस्थयो. परत । ‘इन्द्र त्वास्मिन्सधमादे' । सोमः सधस्थम् ॥ ३५३० । पथि च च्छन्दसि (६-३-१०८) । पथिशब्द उत्तरपदे को कव कादेशश्च । कवपथः-कापथः कुपथः ॥ ३५३१ । साढ्यै साढ़ा साढेति निगमे (६-३-११३) । सहे. स्काप्रत्यये आद्य द्वयं तृनि तृतीय निपात्यते । “मरुद्रिरुग्रः पृतनासु साहृळ ' । अचोर्मछद्यस्थस्य डस्य ळ: ढस्य हृळश्च प्रातिशाख्ये विहितः ।

आह हि द्वयोश्चास्य स्वरयोर्मछद्यमय सम्पद्यते स डकारो ळकारः ।
हळकारतामेति स एव चास्य ढकारः सन्नूष्मणा संप्रयुक्ते ॥” इति ।

३५३२ । छन्दसि च (६-३ १२६) । अष्टटन आत्व स्यादुत्तरपदे । अष्टापदी ॥ ३५३३ । मन्त्रे सोमाश्चेन्द्रियविश्वदेव्यस्य मतौ (६-३-१३१) । दीर्घ स्यान्मन्त्रे । “ अश्वावतीं सोमा वतीम्' । इन्द्रियावान्मदिन्तम । “विश्वकर्मणा विश्वदेव्यावता' ॥ ३५३४ । ओषधेश्च विभक्ता वप्रथमायाम् (६-३-१३२) । दीर्घ स्यान्मन्त्रे । “यदोषधीभ्य अदधात्योषधीषु' ॥ ३५३५ । ऋचि तुनुघमक्षुतङ्कत्रारुष्याणाम् (६-३-१३३) । दीर्घः स्यात् । “ आ तू न इन्द्र ' । 'नू मूर्त.'। उत वा घा ख्यालात्' । मक्षु गोमन्तमीमहे । “भरता जातवेदसम्' । तडिति थादेशस्य डित्वपक्षे ग्रहणम् । तेनह न । * श्रृणेत प्रावाण.' । 'कूमना.' । “ अत्रा त भद्रा ' । “यत्रा नश्चक्रा' । “उरुष्याण.' ॥ ३५३६ । इकः सुनि (६-३-१३४) । ऋचि दीर्घ इलेयेव । अभी षुणः सखीनाम्' । 'सुञ्जः (सू ३६४४) इति ष . । 'नश्च धातुस्थोरुषुभ्य:’ (सू ३६४९) इति णः ॥ ३५३७ । द्यचोऽतस्तिडः (६-३-१३५) । मन्त्रे दीर्घ । 'विद्मा हि त्वा चक्राजरसम्' । ३५३८ । निपातस्य च (६-३-१३६) । 'एवा हि ते ' ॥ ३५३९ । अन्येषामपि दृश्यते