पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७३३
वैदिकप्रकरणम्

निपात्यते । “स्विन्नः स्नात्वी मलादिव' । * पीत्वी सोमस्य वावृधे ? । रुन्नात्वा पीत्वेति प्राझे ।। ३५७२ । आजसेरसुक् (७-१-५०) । अवर्णान्तादङ्गात्परस्य जसोऽसुक् स्यान् । देवासः । ब्राह्मणास ॥ ३५ ७३ । श्रीग्रामण्योश्छन्दसि (७-१-५६) । आमेो नुट । श्रीणामुदारो धरुणेो रयीणाम्' । “सूत ग्रामणीनाम्' ।। ३५७४ । गो पादान्ते (७-१-५७) । ‘विद्मा हि त्वा गोपति शूर गोनाम् ' । 'पादान्त' किम् । 'गवा शता पृक्षयामेषु' । पादान्तेऽपि कचिन्न । छन्दसि सर्वेषां वैकल्पिकन्वात् । 'विरराज गोपनि गवाम्' । ३५७५ । छन्दस्यपि दृश्यते (७-१-७६) । अस्थ्यादीनामनड । 'इन्द्रो दधीचो अस्थभि ? ॥ ३५७६ । ई च द्विवचने (७-१-७७) । अस्थ्यादीनामित्येव । ' अक्षीभ्या त नामिकाभ्याम् ' ।। ३५७७ । दृक्स्ववःस्वत वसा छन्दसि (७-१-८३) । एषा नुम्स्यान्म । “कीदृडिन्द्र.’ । स्ववान् । स्वतवान् । “उदाध्य पूर्वस्य’ (सू २४९४) ॥ ३५७८ । बहुल छन्दसि (७-१-१०३) । ततुरिः ॥ ३५७९ । डू ह्वरेश्छन्दसि (७-२-३१) । हरेर्निष्ठाया “हू' आदश स्यात् । “अहृतमास हावधानम् ' । ३५८० । अपरिहृवृताश्च (७-२३२) । पूर्वेण प्रामस्यादेशस्याभावो निपात्यते । “ अपरिहृष्टता सनुयाम वाजम्' ॥ ३५८१ । सोमे वरित. (७-२-३३) । इङ्गुणौ निपायेत । “मा नः सोमेो ह्वरित ? ॥ ३५८२ । ग्रसितस्कभितस्तभितोत्तभित्चत्तविकस्ता विशस्तृशस्तृशास्तृतरुतृ तरूतृवरुतृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिवमित्यमितीति च (७-२-३४) । अष्टादश निपात्यन्ते । तत्र 'प्रसु' 'स्कभु' “स्तभु' एषामुदित्वान्निष्ठायामिट्प्रतिषेधे प्राप्त इण्निपात्यते । “युव शचीभिसिताममुञ्चतम्' । “विष्कभिते अजरे ' । 'यन स्व स्तभितम् ' । “सत्येनोक्तभिता भूमि.' । स्तभितलेयेव सिद्धे उत्पूर्वस्य पुनर्निपातनमन्येापसर्गभूतस्य मा भूदिति । “चते याचने' । 'कस गतौ' । आभ्या क्तस्येडभावः । “चत्ता इतश्चत्तामुत:’ । त्रिधा ह श्यावमश्विना विकस्तम्' । “उत्तानाया हृदय यद्विकस्तम्' । निपातनबहुन्वापेक्षया सूत्रे बहुवचन विकस्ता इति, तेनैकवचनान्तोऽपि प्रयोगः साधुरेव । “शसु' 'शसु' 'शासु' एभ्यस्तृच इडभावः । एकस्त्वष्टुरश्वस्याविशस्ता ' । 'ग्रावग्राभ उत शस्ता' । “प्रशास्ता पाता ' । तरतेड्वृोश्च तृच 'उट्’ ‘ऊट्’ एतावागमौ निपात्येते । ‘तरुतार रथानाम् ' । तरूतारम् । वरुतारम् वरूतारम् । “वरूत्रीभिः सुशरणो नो अस्तु' । अत्र डीबन्तनिपातन प्रपञ्चार्थम् । वरूतृशब्दो हि निपातित । ततो डीपा गतार्थत्वान् । उज्ज्वलादिभ्यश्चतुभ्र्यः शप इकारादेशो निपात्यते । ज्वल दीप्तौ ' । “क्षर सञ्चलने ? । “टुवमु उद्भिरणे' 'अम गत्यादिषु' । इह क्षरितीत्यख्या नन्तर क्षमितीत्यपि केचित्पठन्ति । तत्र 'क्षमूष सहने' इति धातुबध्य. । भामाया तु 'प्रस्त स्कब्धस्तब्धोत्तब्धचतितविकसिता ? । विशसिता-शसिता-शासिता । तरीता-तरिता । वरीता वरिता । उज्ज्वलति । क्षरति । पाठान्तरे क्षमति । वमति । अमति । “बभूथाततन्थजगृ म्भववर्थेति निगमे' (सू २५२७) । विद्मा तमुत्स यत आबभूथ' । “येनान्तरिक्षमुर्वातन्थ'। जगृम्भा ते दक्षिणमिन्द्र हस्तम् ' । “त्व ज्योतिषो वितमो ववर्थ' । भाषाया तु । बभूविथ । आतेनिथ । जगृहिम । ववरिथेति ॥ ३५८३ । सनिंससनिवांसम् (७-२-६९) । सनिमित्येत त्पूर्वात्सनतेः सनोतेर्वा कसेोरिट् । एत्वाभ्यासलोपाभावश्च निपात्यते । (अञ्जित्वाझे सनिस सनिवासम्) । 'पावकादीनां छन्दसि' (वा ४५२७) प्रत्ययस्थात्कादित्वं नेति वाच्यम् ।