३६५० । अनुदात्त पदमेकवर्जम् (६-१-१५८) । परिभाषयम् स्वरविधिविषया । यस्मिन्पदे यस्योदात्तः स्वरिते वा विधीयते तमेमकमच वर्जयित्वा शेष तत्पदमनुदात्ताच्क स्यात् । गोपायतं न ’ । अत्र 'सनाद्यन्ताः-' (पू २३०४) इति धातुत्वे धातुस्वरेण यकारकार उदात्तः शिष्टमनुदात्तम् । “ सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वाच्यम्' । (वा ३७३०) तेनोक्तोदाहरणे गुपेर्धातुस्वर आयस्य प्रत्ययस्वरश्च न शिष्यते । “अन्यत्र' इति किम् । ‘यज्ञ यज्ञमभिवृद्धे गृणीत' । अत्र सति शिष्टोऽपि 'श्रा' इत्यत्र स्वरो न शिष्यते किंतु तस एव ॥ ३६५१ । अनुदात्तस्य च यत्रोदात्तलोपः । (६-१-१६१) । यस्मिन्ननुदात्ते पर उदात्तो लुग्यते तस्योदात्तः स्यात् । “देवीं वाचम्' । अत्र डीबुदात्तः ।॥ ३६५२ । चौ (६-१-२२२) । लुप्ताकारेऽचतैौ परे पूर्वस्यान्तोदात्तः स्यात् । उदात्तनिवृत्तिस्वरापवाद. । देवद्रीची नयथ देवयन्तः । “ अतद्धित इति वाच्यम्' (वा ३७८९) । दाधीचः । माधूच । प्रत्ययस्वर एवात्र ॥ ३६५३ । आमन्त्रितस्य च (६-१-१९८) । आमन्त्रितविभक्तयन्तस्या दिरुदात्तः स्यात् । “अग्न इन्द्र वरुण मित्र देवा' ॥ ३६५४ । आमन्त्रितस्य च (८-१-१९) पदात्परख्यापादादिस्थितस्यामन्त्रितस्य सर्वस्यानुदात्तः ख्यात् । प्रागुक्तस्य षाष्ठस्यापवादोऽयमाष्ट मिकः । 'इम म गङ्गे यमुने सरस्वति ' । “अपादादैौ' किम् । “शुतुंद्रि स्तोमम्' । “आमन्त्रित पूर्वमविद्यमानवत्' (सू ४१२) । “अझ इन्द्र' अत्रेन्द्रादीनां निघातो न, पूर्वस्या विद्यमानत्वेन पदात्परत्वाभावात् । “नामन्त्रिते समानाधिकरणे सामान्यवचनम्' (सू ४१३) । समानाधिकरण आमन्त्रिते परे विशेष्य पूर्वमविद्यमानवन्न । 'अन्ने तेजस्विन्' । ओपेन त्रात.” । सामान्यवचन किम् । पर्यायेषु मा भूत् । “अध्न्यं देवि सरस्वति' ॥ ३६५५ । सामान्यवचन विभाषित विशेषवचने (८ १-) । भाष्यकृता बहुवचनमिति पूरितम् । सामान्यवचनमिति ७४अत्र च पूर्वसूत्रे योजितम् । आमन्त्रितान्ते विशेषणे परे पूर्व बहुवचनान्तमविद्यमानवद्वा । “देवी षलुर्वीरु नं कृणोत ' । अत्र देवीना विशेषण षडिति । ‘दवाः शरण्या ' । इह द्वितीयस्य निघातो वैकल्पिकः ॥ ३६५६ । सुबामन्त्रिते पराङ्गवत्स्वरे (२-१-२) । सुबन्तमामन्त्रिते परे परस्याङ्गवत्स्यात्स्वरे कर्तव्ये । “द्रवंत्पाणी शुर्भस्पती' । शुभ इति शुभेः किबन्तात् षष्ठ्यन्तम् । तस्य परशरीरानुप्रवेशे षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । न चाष्टमिको निघात शङ्कयः । पूर्वामन्त्रितस्याविद्यमानत्वेन पादादित्वात् । यत्त दिवो दुहितर्मर्तभोजनम्' । इह दिवःशब्दस्याष्टमिको निघातः । परशुना वृश्चन्' । “षष्ठयामन्त्रितकारकवचनम्' (वा १२२३) षष्ठयन्तमामन्त्रितान्तं प्रति यत्कारक तद्वा-वक चेति परिगणन कर्तव्यमित्यर्थः । तेनेह न ।
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/९७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
। श्रीरस्तु ।
अथ स्वरप्रकरणम् ।