पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/११

पुटमेतत् सुपुष्टितम्
सिद्धान्तकौमुदीसहिता

भाविन्या अपि तस्या बुद्ध्या विषयीकरणादियमिति प्रत्यक्षवन्निर्देश । व्याकरणमधीयते विदन्ति वा वैयाकरणा तेषा सिद्धान्ता एवमेते शब्दास्साधव इति निश्चितार्था तेषा कौमुदी चन्द्रिका अत्यन्तसादृश्यात्ताद्रूप्यव्यपदेश । चन्द्रिका हि तमो निरस्यति । भावान् सुख प्रकाशयति । दिनकरकिरणसम्पर्कजनितसन्तापमपगमयति । एवमियमपि ग्रन्थरूपवाक्याव लिरज्ञानात्मक तमो निरस्यति । मुनित्रयग्रन्थभावाननायास प्रकाशयति । अतिविस्तृतदुरूह भाष्यकैयटादिमहाग्रन्थपरिशीलनजनितचित्तसन्ताप च शमयतीति अत्यन्तसादृश्याद्युज्यते चन्द्रिकातादात्म्याद्यवसाय । विरच्यते क्रियते । वर्तमानसामीप्याद्वर्तमानव्यपदेश । किं कृत्वेत्यत आह । मुनित्रयं नमस्कृत्येति ॥ त्रयो अवयवा अस्य समुदायस्य त्रय । त्रयवयवकसमुदाय । सख्याया अवयवे तयप्” इति तयप् तद्धित । द्वित्रिभ्या तयस्यायज्वा इति तस्यायजादेश । मुनीना त्रयमिति षष्ठीसमास । त्रयाणा मुनीना समुदाय इति यावत् । यद्यपि मुनिशब्दस्य त्रिशब्दस्य चाभेदान्वये त्रि शब्दस्य मुनिशब्दसापेक्षत्वात् असामर्थ्यात्तद्धितानुपपाति । तथापि त्रयोऽवयवा अस्य समुदायस्य त्रय इति प्रथम व्युत्पाद्यम् । अत्र त्रिशब्दस्य मुनिशब्दमनपेक्ष्यैव समुदायेऽन्वया न्नास्त्यसामर्थ्य । ततो मुनीना त्रयमिति मुनिशब्द समुदायेऽन्वेति । तस्य प्रत्ययार्थतया प्रधा नत्वात् । न तु मुनिशब्दस्य त्रयशब्दैकदेशभूतत्रिशब्देनाभेदान्वय । पदार्थ पदार्थेनान्वेति न तु तदेकदेशेनेति न्यायात् । ततश्च मुनिशब्दत्रिशब्दयो परस्परवार्तानाभिज्ञयोरेव शब्दमर्यादया समुदायेऽन्वये सति पश्चात्सख्याया परिच्छेदकत्वस्वभावतया त्रित्वस्य परिच्छेद्यपर्यालोचनाया सन्निहितपदान्तरोपस्थितत्वान्मुनय एव परिच्छेद्यतया सबद्यन्ते । त्रयाणा मुनीना समुदाय इति । सोऽय पार्ष्ठिकान्वय अरुणाधिकरणन्यायविदा सुगम इत्यल विस्तरेण । मुनित्रयमिति कर्मणि द्वितीया । नमस्वस्तीति चतुर्थी तु न । कारकविभक्तेर्बलीयस्त्वस्य वक्ष्यमाणत्वात् । नमस्कृत्य अञ्जलिशिरस्सयोगादिव्यापारेण तोषयित्वेत्यर्थ । नमस्करोतेर जलि शिरस्सयोगादिरूपव्यापारमात्रार्थकत्वे अकर्मकत्वापत्या द्वितीयानुपपत्ते । ननु प्राचीनेषु प्रक्रियाकौमुद्यादिग्रन्थेषु वैयाकरण सिद्धान्ताना सग्रहात्तैरेव ग्रन्थै चरितार्थत्वात्किमनेन ग्रन्थेनेत्यत आह । तदुक्तीः परिभाव्य चेति ॥ तस्य मुनित्रयस्य उक्तय तदुक्तय सूत्रवार्तिकभाष्यात्मकग्रन्थरूपवाक्यावलय ता परिभाव्य च सम्यगालोच्य चेत्यर्थ । भूधातोस्स्वार्थिकणिजन्ताद्रूपम् । चुरादौ हि भुवोऽवकक्लने इत्यत्र ण्यन्तभूधातोश्चिन्तनार्थकत्वमपि वक्ष्यते मूलकृतैव । नच 'अनादर परिभव परीभावास्तिर स्क्रिये'ति कोशविरोधश्शङ्क्य । कोशस्य अण्यन्तभूधातुविषयत्वात् । परौ भुवोऽवज्ञान इति सूत्रेण तिरस्कारार्थे वर्तमानादण्यन्तात्परिपूर्वकभूधातोर्भावे घजज्ज् परिभावशब्दस्य व्युत्पत्यवगमात् । एवञ्च तदुक्तीरिति तच्छब्दस्य बुद्धिस्थपरामर्शित्वात्प्राचा प्रक्रियाकौमुदीप्रसादादिकृता उक्ती स्तिरस्कृत्येत्यर्थ इति व्याख्यान क्लिष्टत्वादुपेक्षितम् । अनेन स्वग्रन्थस्य मुनित्रयग्रन्थानुयायित्व प्राचीनप्रक्रियाकौमुद्यादिग्रन्थाना तद्विरुद्धत्वञ्च सूचितम् । तच्च प्रौढमनोरमाया स्वयमेव मूलकृता प्रप तमेव । वैयाकरणसिद्धान्तकौमुदीत्यन्वर्थसज्ञया वैयाकरणसिद्धान्ता प्रतिपाद्यत्वेन विषया अनायासेन तदवगम प्रयोजनम् । तस्य ग्रन्थस्य च जन्यजनकभावस्सम्बन्ध । वैयाकरणसिद्धा न्तजिज्ञासुरधिकारीति सूचितम् । अथ वैयाकरणसिद्धान्तान्निरूपयिष्यन् व्याकरणशास्त्रस्य मूलभू-