पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१३

पुटमेतत् सुपुष्टितम्
[संज्ञा
सिद्धान्तकौमुदीसहिता


१ । हलन्त्यम् । (१-३-३)

'हल्' (प्र सू १४) इति सूत्रेऽन्त्यमित्स्यात्

२ ॥ आदिरन्त्येन सहेता । (१-१-७१)

अन्त्येनेता सहित आदिर्मद्ध्यगानां स्वस्य च संज्ञा स्यात् । इति


योग इत्यादिशास्त्रबलाच्च, नाय नियम इत्यलम् । ननु चतुर्दशसूत्रया णकाराद्यन्तवर्णाना इत्सज्ञा प्रतिज्ञाता । एषामन्त्या इत इति । तदनुपपन्नम् । तेषा हि “हलन्त्यमिति” सूत्रेण इत्सज्ञा वक्तव्या । तच्च सूत्र हल्पदार्थावगमोत्तरमेव प्रवृत्तिमर्हति । हल्सज्ञाच हलिति सूत्रे लकारस्य इत्सज्ञाया सत्या आदिरन्त्येन सहेतेति सूत्रेण वाच्या । हलिति सूत्रे लकारस्य इत्सज्ञा च हलन्त्यमिति सूत्रेणैव वाच्या । एवञ्च हलिति सूत्रे लकारस्य इत्सज्ञाया सत्या आदिरन्त्येनेति हल्सज्ञासिद्धौ हलन्त्यमिति सूत्रप्रवृत्ति । हलन्त्यमिति सूत्रेण हल्सूत्रे लकारस्य इत्सज्ञाया आदिरन्त्येन सहेतेतेि हल्सज्ञासिद्धिरित्येव हलन्त्यमादिरन्त्येनेत्यनयो परस्परसापेक्षत्वेन अन्योन्याश्रयत्वादबोध । एवञ्च हल्सज्ञामनुपजीव्यैव हल्सूत्रे लकारस्य केनचित् सूत्रेण इत्सज्ञा अबोधयित्वा हलन्त्यमिति हलामित्सज्ञाबोधन पाणिनेरयुक्तमित्याशक्य हल्सज्ञामनुपजीव्यैव हल्सूत्रे लकारस्य इत्सज्ञा विधातु हलन्त्यमिति सूत्र द्विरावृत्य प्रथमसूत्रमुपक्षिपति । हलन्त्यम् ॥ एकपद सूत्र । हलि अन्त्य हलन्त्यमिति विग्रह । शौण्डादेराकृतिगणत्वात् सप्तमी शैौण्डैरिति सप्तमीसमास । सुप्सुपेति समासो वा । हल्पदमिह सूत्रपर । उपदेशेऽजनुनासिक इदिति पूर्वसूत्रात् इदित्यनुवर्तते । तदाह । हलिति सूत्र इत्यादिना । इत्स्यादिति ॥ इत्सज्ञक स्यादित्यर्थ । सज्ञाप्रस्तावात् । एवञ्च अनेन सूत्रेण हल्सूत्रे लकारस्य हल्सज्ञामनुपजीव्यैव इत्सज्ञासिद्धेति नान्योन्याश्रय इति भाव । नन्वस्तु हल्सूत्रेलकारस्य इत्सज्ञा। तत किमित्यत आह । आदिरन्त्येन सहेता ॥ अन्तेभव अन्त्य । तेन इता सहोच्चार्यमाण आदि अण् अच् इत्यादिरूप सज्ञेत्यर्थ । सज्ञाप्रस्तावात् । तत्र यस्मात्पूर्व नास्ति परमस्ति स आदि । यस्मात्पर नास्ति पूर्वमस्ति सोऽन्त इति आद्यन्तवत्सूत्रे भाष्यम् । तदिहाद्यन्तशब्दाभ्या मध्द्यगा आक्षिप्यन्ते। अतस्तेषा सज्ञेति लभ्यते । स्व रूपमिति पूर्वसूत्रात्स्वमित्यनुवर्तते । तच्च षष्ठ्यन्ततया विपरिणम्यते । तदेतदाह। अन्त्येनेतेत्यादि । स्वस्य चेति ॥> अत्र च स्वशब्देन सज्ञाकोटिप्रविष्ट आदिरेव परामृश्यते। नत्वन्त्योऽपि । अन्त्येनेति तृतीयया “सह युक्तेऽप्रधान” इति विहितया तस्य अप्राधान्यावगमात् । सर्वनाम्रा चोत्सर्गत प्रधानपरामर्शित्वात् । न च इक् उक् इच् यय् मथ् इत्यादिप्रत्याहारा कथ स्यु । इकारादीनामादित्वाभावादिति वाच्यम् । न हि सूत्रापेक्षमिहादित्वम् । किन्तु आद्यन्तशब्दाक्षिप्तसमुदायापेक्षम् । ततश्च अइउणिति इकारमारभ्य ऋलक् इति ककारपर्यन्त वर्णसमुदाय बुध्द्या परिकल्प्य तदादित्व इकारस्य सम्भावनीयम् । एवमिजादिष्वपि । तथा अन्त्यत्वमपि बुद्धिकल्पितसमुदायापेक्षमेव । न तु सूत्रापेक्षम् । ततश्च रप्रत्याहारस्सुग्रह । अन्यथा लण्सूत्रे अकारस्यान्त्यत्वाभावात् स न स्यात् । अत्र आद्यन्तशब्दयोरन्यतराभावे मध्द्यगानामिति न लभ्येत । आदिरित्यभावे हि अन्त्येनेता सहोच्चार्यमाणो वर्ण अन्त्यात्प्राक्