पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१५३
बालमनोरमा ।

२४६ । डसिङसोश्च । (६-१-११०)

एडो डसिडसोरति परे पूर्वरूपमेकादेश स्यात् । हरे । हरे । हर्यो ।

२४७ । अञ्च घेः । (७-३-११९)

इदुद्भयामुत्तरम्य डेरौत्स्याद्वेरन्तादेशश्चाकार । वृद्धि हरौ । हयों हरिषु । एव श्रीपत्यग्रिविकव्यादय. ।

२४८ । अनड् सौ । (७-१-९३)


वद्रावेन डादित्व शङ्कयम् । अत्विधित्वात्। स्यानिनो डेर्डकारत्वेनाश्रयणात् । इद्वहणे तु स्थानि वद्भावस्सम्भवति । अनुबन्धकाये कर्तव्ये अनल्विधाविति निषेधाभावात् । आमादेशदशाया द्वेर्डकारस्य इत्सज्ञालोपाम्यामपहृतत्वेन आम्स्थान्यल्त्वाभावात् । अनुबन्धानामनेकान्तत्वान् । एकान्तत्वपक्षेऽपि अरश्रहणेन अनुबन्धस्य ग्रहण न भवति । * अनेकाल्शित्सर्वस्य' इत्यत्र शिद्वहणात् ज्ञापकात् । अन्यथा 'इदम इश्' इत्यादिशिता शकारेणानुबन्धेन सहानेकात्वादेव सिद्धे केि तेन । अतएव तिवाद्यादेशेषु पित्वादिस्सिद्यति । अत एव “सेर्हपिच' इत्यत्र अपि दित्यर्थवत् । अन्यथा पित्कार्यस्याल्विधित्वात्तत्र स्थानिवद्भावस्यैवाप्रसक्तया हे पित्वस्यैवाप्र सत्क्तौ किं तन्निषेधेन । तदिद स्थानिवत्सूत्रे शब्देन्दुशेखरे प्रपचितम् । गुणे कृते इति ॥ डसिडसोरिति शेष । हरे अस् इति स्थिते अपदान्तत्वात् 'एड पदान्तान्' इति पूर्वरूपे अप्राप्त अयादेशे प्राप्त । ङसिङसोश्च ॥ 'एड पदान्तात्' इत्यत एड इति, अतीति चानुवर्तते । “अमि पूर्व ' इत्यत पूर्व इत्यनुवर्तते । “एक पूर्वपरयो ' इत्यधिकृतम् । तदाह । एङो ङसिङसोरित्यादिना। हरेः इति । पूर्वरूपे रुत्वविसर्गौ । पञ्चम्येकवचनस्य षष्ठये. कवचनस्य च रूपमेतत् । यद्यपि डसिडसौ द्वौ । एडौ च द्वौ । तथापि न यथासङ्खयमिष्यते । यथासङ्खयमनुदेशस्समाना, स्वरितेन' इति सूत्रच्छेदमभ्युपगम्य यत्र स्वरितत्व प्रतिज्ञात तत्रैव यथासङ्खयविज्ञानादिति यथासङ्खयसूत्रभाष्ये स्पष्टम् । “अञ्च घे ' 'उपसर्गे घो कि इत्यादिनिर्देशाच्च । हर्योरिति ॥ षष्ठीद्विवचने यणादेशे रूपम् । हरीणामिति । “हूस्व नद्याप ' इति नुट् । 'नामि' इति दीर्घ । ‘अट्कुप्वाड्’ इति णत्वम्। हरि इ इति स्थिते “घे- र्डिति’ इति गुणे प्राप्ते । अञ्च घेः ॥ 'डेराम्' इत्यतो डेरियनुवर्तते । इदुभ्याम्’ इति ‘औत्’ इति च सूत्रमनुवर्तते । तदाह । इदुद्भ्यामित्यादिना ॥ अन्तादेशः ॥ इतेि अलोऽन्त्यपरि भाषालभ्यमेतत् । वृद्धिरिति ॥ हरि औ इति स्थिते ‘वृद्धिरेचि' इति वृद्धौ, हरौ इति रूपामित्यर्थे । हरिष्विति ॥ “ आदेशप्रत्ययो ' इति षत्वम् । अथ सखिशब्दात् सु । सखि स् इति स्थिते । अनड् सौ ॥ 'सख्युरसम्बुद्वौ' इत्यनुवर्तते। ‘अङ्गस्य'इत्यधिकृतम्। तदाह । 20