पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
[संज्ञा
सिद्धान्तकौमुदीसहिता

६ । नीचैरनुदात्तः । (१.२-३०)

स्पष्टम् । अर्वाङ् ।

७ । समाहारः स्वरितः । (१-२-३१)

उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन्सोऽच्स्वरितसंज्ञ. स्यात् ।

८ । तस्यादित उदात्तमर्द्धह्रस्वम् । (१-२-३२)

ह्रस्वग्रहणमतन्त्रम् । स्वरितस्यादितोऽर्धमुदात्तं बोद्धयम् । उत्तरार्द्ध तु परि शेषादनुदात्तम् । तस्य चोदात्तस्वरितपरत्वे श्रवणं स्पष्टम् । अन्यत्र तूदात्त


ये इति । आये मित्रा वरुणेत्यूचि आकार एकारश्च उदात्त इत्यर्थ।अनुदात्तसज्ञामाह । नीचै । अनुदात्तसज्ञामाह । रनुदात्तः । स्पष्टमिति ॥ उक्तरीत्या ताल्वादिषु अधोभागे निष्पन्नोऽच् अनुदात्तसज्ञ स्यादिति स्पष्टार्थकमित्यर्थे । अर्वाड् इति । अर्वाड् यज्ञस्सक्रामत्यूचि आद्य अकार अनुदात्त इत्यर्थ । अथ स्वरितसज्ञामाह । समाहारस्वरितः ॥ पूर्वसूत्राभ्या उदात्त इति अनुदात्त इति चानुवर्तते । ऊकालोऽजित्यस्मादजित्यनुवर्तते । ततश्च उदात्त अनुदात्तश्च अच् समाह्रियमा ण स्वरित इत्यर्थ प्रतीयते । एव सति वर्णद्वयस्य स्वरितसज्ञा स्यात् । नत्वेकस्य अतेो नैव मर्थ । किंतु उदात्तानुदात्तपदे अनुवृत्त धर्मप्रधाने षष्ठयन्ततया च विपरिणम्येते । यत्र समाह रण स समाहार । अधिकरणे घञ् । ततश्च उदात्तत्वानुदात्तत्वयोर्धर्मयोर्यस्मिन्नाचि मेलन सोऽच् स्वरितसज्ञक इत्यर्थ । फलितमाह । उदात्तत्वानुदात्तत्व इत्यादिना ॥ननु उदात्तत्वानुदा त्तत्वयोरेकस्मिन्नपिमेलनेकस्मिन्भागे उदात्तत्वस्य समावेश कस्मिन्भागे अनुदात्तत्वस्य समावेश इत्यत आह । तस्यादितः ॥ तस्य स्वरितस्य आदित पूर्वभागे अर्द्धहूस्वमुदात्त इत्यर्थ प्रतीयते । एव सति दीर्घस्वरिते इय व्यवस्था न स्यात् । अत आह । ह्रस्वग्रहणम तन्त्रमिति ॥ तन्त्र प्रधान । (तन्त्र प्रधाने सिद्धान्ते) इति कोश । न विद्यते तन्त्र वाच्यार्थ लक्षण प्रधान यस्य तत् अतन्त्र अविवक्षितार्थकमित्यर्थे । ह्रस्वग्रहण न कर्तव्यमिति यावत् । दीर्घस्वरितेऽप्युत्तरभागस्य वेदे अनुदात्तत्वदर्शनादिति भाव । ततश्च फलितमाह । स्वरित स्यादावर्द्धमुदात्तं बोद्धव्यमिति ॥ ननु अनुदात्तत्वस्य निवेशव्यवस्था कुतो नोक्तत्यत आह। उत्तरार्द्धन्त्विति । ननुएव सति अन्गिमीळ इत्यत्र ईकारे स्वरिते कथमुत्तरार्धमनुदात्तम्। नेत्यत आह । तस्य चेति । चकारो वाक्यालङ्कारे । तस्य अनुदात्तभागस्य उदात्तस्वरित परत्वे उदात्तस्वरितौ परौ यस्मात् स उदात्तस्वरितपर तस्य भाव उदात्तस्वरितपरत्वम् । उदात्तपरकत्वे स्वरितपरकत्वे वा सति श्रवण स्पष्ट भवतीत्यर्थे । अन्यत्रेति ॥ उदात्त स्वरितपरकत्वाभावे अनुदात्तप्रचयपरकत्वे अनुदात्तभागस्य उदात्ततरत्वापरपर्याया उदात्तश्रुति ऋग्वेदप्रातिशाख्ये विहितेत्यर्थ । तत्र त्वेवमुक्तम् । अनुदात्त परश्शेष स उदात्तश्रुतिर्नचेत् । उदात्त वोच्यते केिचित्स्वरित वाक्षर परम् ॥ इति स्वरिते पूर्वभागस्य उदात्तत्वे सति परश्शेष