पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१६५
बालमनोरमा ।


२६७ । अम्बार्थनद्योर्हस्वः । (७-३-१०३)

अम्बार्थाना नद्यन्ताना च ह्रस्व. स्यात्सम्बुद्धौ । हे बहुश्रेयसि । शसि बहुश्रेयसीन् ।

२६८ । आण्नद्याः । (७-३-११२)

नद्यन्तात्परेषा डितामाडागम स्यात् ।

२६९ । आटश्च । (६-१-९०)

आटोऽचि परे वृद्धिरेकादेश स्यात् । बहुश्रेयस्यै । बहुश्रेयस्या बहुश्रेयस्या । नद्यन्तात्परत्वान्नुट् । बहुश्रेयसीनाम् ।


किम् । वातप्रम्ये । नित्येति किम् । ग्रामण्ये । ननु प्रकृते बहुश्रेयसीशब्दस्य पुलिङ्गत्वात् कथ नदीसजेत्यत आह । “प्रथमलिङ्गग्रहणञ्च' वार्तिकमेतन् । प्रथमस्य समासादिवृत्तिप्रवृत्ते पूर्व प्रवृत्तस्य स्त्रीलिङ्गस्य 'यू स्त्रयाख्यौ ? इत्यत्र ग्रहण कर्तव्य मित्यर्थ । नन्वेव सति समासादिवृत्त्यभावे गौर्यादिशब्दाना नदीत्व न स्यादित्याशङ्कय अपिशब्दमद्याहृत्य व्याचष्टे । पूर्वमित्यादिना ॥ समासादिवृत्तिप्रवृत्ते पूर्व स्त्रीलिङ्गस्य सत वृत्तिदशायामुपसर्जनतया स्त्रीलिङ्गत्वाभावेऽपि नदीत्व वक्तव्यमिति वार्तिकार्थ इति भाव । अम्बार्थनद्योर्हस्वः ॥ अम्बार्थानामिति ॥ अम्बापर्यायाणामित्यर्थ । नद्य न्तानामिति ॥ अङ्गाधिकारस्थत्वात्तदन्तविधि । तुत्यन्यायत्वादम्वार्थनामित्यत्रापि तदन्त विधिर्वोच्च । सम्बुद्धाविति सम्बुद्धे च' इत्यतस्तदनुवृत्तरिति भावअम्बागोर्या दिशब्देषु नदीत्वन्तु व्यपदेशिवद्भावेन तदन्तत्वात् ज्ञेयम् । हे बहुश्रेयसि इति ॥ हस्वे सति 'एड् हूस्वात्' इति सम्बुद्धिलोप । हूस्वे गुणस्तु न । प्रक्रियालाघवाय 'अम्बार्थनद्यो

र्ह्रस्व ' इत्यनुक्ता, अम्बार्थनद्योर्गुण, इति वाच्ये हृस्वविधिसामर्थ्यादिति स्पष्ट भाष्ये । बहुश्रे

यस्यौ । बहुश्रेयस्य 'दीर्घाज्जसि च' इति पूर्वसवर्णदीर्घनिषेधे यण् । अमि पूर्व । बहुश्रेय सीम् । बहुश्रेयस्यौ । बहुश्रेयसीन् इति ॥ पूर्वसवर्णदीर्घे सति “तस्माच्छस ' इति नत्व मिति भाव । बहुश्रेयस्या । अघित्वान्नाभावो न, किन्तु यणादेश । बहुश्रेयसीभ्याम् । बहुश्रे यसीभि । बहुश्रेसी ए इति स्थिते घित्वाभावान्न तत्कार्यम् । यणि बहुश्रेयस्ये इति प्राप्ते । आण्नद्या. ॥ अङ्गस्येत्यधिकृत पञ्चम्या विपरिणम्यते । नद्या इति पञ्चम्यन्तेन विशेष्यते । तदन्तविधि । *घेर्डिनि ' इत्यत डितीत्यनुवृत्त षष्ठया विपरिणम्यते । तदाह । नद्यन्ता दित्यादिना ॥ टित्वादाद्यवयव । बहुश्रेयसी आ ए इति स्थिते । आाटश्च ॥ “इको यणचि इत्यत अचीति ‘वृद्धिरेचि' इत्यत वृद्धिरिति चानुवर्तते । “एक पूर्वपरयो ' इति चाधि कृतम् । तदाह । आटोऽचीत्यादिना । बहुश्रेयस्यै इति । बहुश्रेयसी आ ए इति स्थिते आटश्च' इति वृद्धौ यणादेशे च रूपमिति भाव । यद्यपि *वृद्धिरेचि' इत्येव सिद्धम् । तथापि ऐक्षत इत्याद्यर्थम् 'आटश्च' इति सूत्रम् । इहापि न्याय्यत्वादुपन्यस्तम् । बहुश्रेयस्याः इति ॥