पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
[संज्ञा
सिद्धान्तकौमुदीसहिता

अकारहकारशकारयोर्ऋकारषकारयोर्लृकारसका रयोश्च मिथः सावण्येंप्राप्ते ।

१३ । नाऽऽज्झलौ । (१-१-१०)

आकारसहितोऽच् आच्, स च हल्चेत्येतौ मिथः सवर्णेौ न स्त । तन्न द् धीत्यस्य हरति शीतलं षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न । अन्यथा दी र्घदीनामिव हकारादीनामपि ग्रहणकशास्त्रबलादच्त्वं स्यात् । तथा हि ।


च न सावर्ण्यप्रसक्ति । इकारस्य विवृतत्वाच्चवर्गस्य स्पृष्टत्वात् यकारस्य ईषत्स्पृष्टत्वाच्च । अत इकारस्य शकारेण सावर्ण्य परिशिष्यत इति भाव । ऋकारषकारयोरिति ॥ मूर्धस्थानविव तयन्नसाम्यात् उभयोस्सावर्ण्य प्राप्तम् । ऋकारस्य टवर्गेण रेफेण च न सावर्ण्यप्रसक्ति । ऋकारस्य विवृतत्वात् टवर्गस्य स्पृष्टत्वात् रेफस्य ईषत्स्पृष्टत्वाच्च । अत ऋकारषकारयोस्सावर्ण्य परिशिष्य त इति भावः । लृवकारसवकारयोरितेि ॥ दन्तस्थानविवृतप्रयत्न्नसाम्यादुभयोस्सावर्ण्यं प्राप्तम् । लृकारस्य तवर्गेण लकारेणच न सावर्ण्यप्रसक्ति । लृकारस्य विवृतत्वात्तवर्गस्य स्पृष्टत्वात् लका रस्य ईषत्स्पृष्टत्वाच । अत लृकारस्य सकारेण सावर्ण्य परिशिष्यते ॥ एव प्राप्त प्रतिषेधति । नाऽऽज्झलौ ॥ आ सहित अच् आच । शाकपार्थिवादित्वात्सहितशब्दस्य लोप । सच हल्च आज्झलौ । तुल्यास्यसूत्रात्सवर्णमित्यनुवर्तते । तच्च पुल्लिङ्गद्विवचनान्ततया विपरिणम्यते । तदाह । आाकारसहितोऽजित्यादिना ॥ ननु किमर्थोऽय प्रतिषेध इत्यत आह । तेनेत्यादि यणादिकं नेत्यन्तम् ॥ तेन प्रतिषेधेन, आदिना सवर्णदीर्घसङ्गह । दधीति इकारस्य हकारे षकारे सकारे च परे “इकोयणवि” इति यणादेश । शीतळमित्यत्र शकारे परे सवर्ण दीर्घश्च नभवतीत्यर्थ. । नन्वस्तु अकारहकारयो इकारशकारयो ऋकारषकारयो लृकारसकार योश्च सावर्ण्यम् । तथापि दधि षष्ठमित्यादौ यणादिक न प्रसक्तम् । अच्परकत्वाभावादित्यत आह । अन्यथेत्यादिना । अन्यथा तेषा सावर्ण्याभ्युपगमे दीर्घादीनामिव हकारादीनामप्यच्त्व स्यादित्यन्वय । ननु वर्णसमान्नाये हकारादीना अकारचकारमध्द्यगत्वाभावात् कथमच्त्वमित्यत आह । ग्रहणकशास्रबलादिति ॥ गृहन्त्यकारादयस्वसवर्णान् येन तत् ग्रहण । करणे ल्युट् स्वार्थेक । अणुदित्सूत्रादित्यर्थ । यद्यप्यच्छब्दवाच्यत्व वर्णसमाम्नायिकानामेव वर्णानाम् तथापि इकोयणचीत्यादौ अच्छब्देन अकारादिषूपस्थितेषु तै अणुदित्सूत्रबलेन स्वस्वसवर्णा नामाकारादीनामुपस्थितिरस्ति । ततश्चात्राच्पदवाच्याकारादिवाच्यत्वादाकारादीनामपि लक्ष णया अच्छब्देन ग्रहण स्यादित्यर्थः । न च इकोयणचीत्यादौ शक्यार्थमादायैवोपपत्तेर्नलक्षणा सभव । अणुदित्सूत्रन्तु अस्यच्वावित्यादौ सावकाशमिति वाच्यम् । ल्वादिभ्य इत्यादिनिर्देश बलेन प्रत्याहाराणा स्ववाच्यवाच्येषु लक्षणावश्यम्भावात् । तथाच अच्त्व स्यादित्यस्य अच्पद बोद्यत्व स्यादित्यर्थ. । किन्तद्रहणकशास्त्रमित्याकाक्षायान्तदुपपादन प्रतिजानीते। तथाहीति ।