पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
[संज्ञा
सिद्धान्तकौमुदीसहिता


इति सावर्ण्यनिषेधो यद्यप्याक्षरसमाम्नायिकानामेव, तथापि हकारस्याकारो न सवर्ण । तत्राकारस्यापि प्रश्लिष्टत्वात् । तेन विश्वपाभि ' इत्यत्र “ हो ढ


खरे प्रपच्चितम् । तेनेति ॥ एदैतोरोदौतोश्च मिथस्सावर्ण्यभावेनेत्यर्थ । नापादनीयमिति ॥ नाशङ्कनीयामित्यर्थ । एवञ्च एकारेण सह वर्तत इति सै हेसैरित्यत्र 'एड् हूस्वात्' इति सबुद्धि लोपो न । ग्लाव ग्लाव इत्यत्र ‘औतोऽशसो ' इत्यात्वञ्च न । स्यादेतत् । हकारस्य आकारस्य च सवर्णसज्ञा स्यात् स्थानप्रयत्न्नसाम्यात् । अज्झलामेव सावर्ण्यनिषेधात् वार्णसमाम्नायिकानामेव वर्णाना अज्झलशब्दवाच्यत्वात् । आकारप्रश्लेषे च प्रमाणाभावात् । नचाकारस्याच्त्वात् आकारस्यापि अणुदित्सूत्रेण ग्रहणादाकारहकारयोर्नसावर्ण्यमिति वाच्यम् । ग्रहणकसूत्र हि लब्धात्मकमेव सत् ‘अस्यच्वौ' इत्यादौ प्रवृत्तिमर्हति । नाज्झलावितिप्रवृत्तिदशायाश्च ग्रहणकशास्त्र नलब्धात्मकम्। तद्धिसवर्णपदघटितम्। सवर्णपदार्थावगमोत्तरमेव लब्धात्मक सवर्णसज्ञाविधायकञ्च तुल्यास्यसूत्र सामान्यत स्वार्थ बोधयदपि नाज्झलावित्यपवादविषय परिहृत्य तदन्यत्रैव पर्य वसन्न स्वकार्यक्षमम् । तदुक्त “प्रकल्प्यापवादविषय उत्सर्गेऽभिनिविशत' इति । उक्तञ्च भाष्ये 'वर्णानामुपदेशस्तावत् उपदेशोत्तरकाला इत्सज्ञा । इत्सोत्तरकाल आदिरन्त्येनेति प्रत्याहार । प्रत्याहारोत्तरकाला सवर्णसज्ञा। तदुत्तरकालमणुदित्सूत्रम् । इत्येतेन समुदितेन वाक्ये नान्यत्र सवर्णाना ग्रहण भवति' इति । अन्यत्र ‘अस्यच्वौ' इत्यादावित्यर्थ । अत्र भाष्ये प्रत्याहारो त्तरकाला सवर्णसज्ञेत्यनेन नाज्झलाविति निषेधसहित सावर्ण्यविधिर्विवक्षित । केवलसावर्ण्यविधे प्रत्याहारानपेक्षत्वेन प्रत्याहारोत्तरकालिकत्वनियमासम्भवात् । तथाचाणुदित्सूत्रस्य नाज्झलाविति निषेधसहिततुल्यास्यसूत्रप्रवृत्ते प्रागलब्धात्मकत्वात् । तेन नाज्झलावित्यत्र अज्ग्रहणेन सवर्णाना ग्रहणाभावात् सावर्ण्यविधिनिषेधाभावात् आकारहकारयोस्सावर्ण्यं स्यादिति शङ्कते । नाज्झ लाविति सावर्ण्येत्यादिना ॥ यद्यपीति सभावनायाम् । अक्षरसमाम्नायश्चतुर्दशसूत्री । तत्र भवा आक्षरसमान्नायिका । ‘बहुचोऽन्तोदात्तात्’ इति ठञ् । न च नाज्झलाविति प्रवृत्तिदशायाम णुदित्सूत्रप्रवृत्यभावेऽपि तत्र अजिल्यनेन लक्षणया दीर्घप्लुताना ग्रहणमस्तु । प्रत्याहाराणा स्ववा च्यवाच्येषु लक्षणाया अनुपदमेव प्रपञ्चितत्वादिति वाच्यम् । स्ववाच्यवाच्येषु हि प्रत्याहाराणा लक्षणा। न चात्राच्छब्दवाच्याकारादिवाच्यता दीर्घप्लुतानामस्ति। अणुदित्सूत्रस्येदानीमप्रवृत्तेरिति भाव । परिहरति । तथापीति ॥ वार्णसमाम्नायिकानामेव नाज्झलाविति निषेध इत्यभ्युपगमेऽपि हकारस्य आकारो न सवर्ण इत्यर्थे । कुत इत्यत आह । तत्रावकारस्यापीति । अपिशब्दो व्यु त्क्रम.। तत्र जाज्झलाविति सूत्रे। आ सहित अच् आच इत्याकारस्यापि सवर्णदीर्घण प्रश्लिष्टत्वा दित्यर्थ । नन्वस्तु हकारस्य आकारस्य च सावर्ण्य, किन्तत्प्रतिषेधार्थेन आकारप्रश्लेषेणेत्यत आह । तेनेति ॥ तेन हकारस्य आकारस्य च सावर्ण्यप्रतिषेधेन हकारेण आकारस्य ग्रहणाभावात्, वि श्वपाभिरित्यत्र होढ इति हकारस्य विधीयमान ढत्व पकारादाकारस्य न भवति । आकारप्रश्ले षाभावे तु, तस्य हकारस्य च, सावर्ण्यसत्वात्, हकारेण आकारस्य च ग्रहणादिति, तस्य ढत्व स्यादित्यर्थे । अत्र ढत्वस्यासिद्धत्वात् सयोगान्तलोप एवापादनीय इति नवीना । “कालसमयवे लासुतुमुन्नू’ इति सूत्रेवेलास्विति लकारादाकारस्य निर्देश नाज्झलावित्यत्र आकारप्रश्लेषे प्रमाणम्।