पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
[संज्ञा
सिद्धान्तकौमुदीसहिता

१६ । वृद्विरार्दैच । (१-१-१)

आदैच वृद्धिसंज्ञः स्यात् ।

१७ । अदेङ्गुणः । (१-१-२)

अदेड् च गुणसञ्ज्ञ. स्यात् ।

१८ । भूवादयो धातवः । (१-३-१)

क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्यु


इत्, उत्, इत्याद्युदाहरणम् । तात्पर इति पञ्चमीसमासस्य तु वृद्धिरादैजित्यैकार उदाहरणम् । आत्, ईत, ऊत्, इत्यादि तु न तपरसूत्रस्योदाहरणम् । आकारादिषु हि तपरसूत्रमपूर्वविधा नार्थम्, उत नियमार्थ2 नाद्य । तपरसूत्रे ग्रहणकसूत्रादणित्यनुवृत्ते । तत्र अणित्यस्य उक्त रीत्या वर्णसमाम्नायपठितवर्णमात्रपरत्वात् । तपरसूत्रे अण्ग्रहणानुवृत्यभावेऽपि जातिपक्षे आ कारादिभि दीर्घ स्वस्वसमानकालिकप्रपञ्चस्य वाच्यताया लोकत एव सिद्धत्वेन तेषु तपरसूत्र प्रवृत्तेर्व्यर्थत्वात् । न द्वितीय । उक्तरीत्या ग्रहणकसूत्रस्य वार्णसमाम्नायिकवर्णमात्रविषयतया आकारादिषु तस्य प्रवृत्यसम्भवन तपरसूत्रस्य तेष्वतत्कालव्यावृत्तिफलकतन्नियमनार्थत्वानुप पत्ते । सिद्धे सत्यारम्भस्यैव नियमार्यत्वात् । एवञ्च आत्, ईत्, इत्यादि तपरकरणमसदेहार्थमेवे त्यास्ता तावत् । तदेव वृत्त प्रत्याहारप्रपञ्च ग्रहणकशास्त्रप्रपञ्चश्च । इदानी सज्ञान्तराणि विधास्यन् वृद्धिसज्ञान्तावदाह । वृद्धिरादैच् ॥ यद्यपि पाणिनीयाष्टाद्याय्यामिदमादिम सूत्रम् । तथापि नेदमादावुपन्यस्तम् । अस्य सूत्रस्य तपरकरणे च प्रत्याहारगर्भितत्वेन ग्रहणकशास्त्रनि यमार्थतपरसूत्रप्रत्याहारसूत्रप्रवृत्त्युत्तरप्रवृत्तिकतया प्रत्याहारशास्त्रग्रहणकशास्त्रप्रपञ्चनिरूपणात् प्रागुपन्यासानर्हत्वात् । नच सूत्रकृता अयमेव पाठक्रम कुतो नाद्रियत इति वाच्यम् । स्वतन्त्रे च्छस्य महर्षेर्नियन्तुमशक्यत्वात् । आच ऐच्चेति समाहारद्वन्द्व । ‘द्वन्द्वाच्चुदषहान्तात्’ इति समा सान्तस्तु न । अत एव निर्देशेन समासान्तविवेरनित्यत्वात् । ‘चो कु' इति पदान्ते विहित कुत्व मपि न । अयस्मयादीनि छन्दसि’ इति भत्वात्। ‘वृद्धिरादैजदेड्’ इति सहितापाठपक्षे चकारस्य झलाञ्चशोऽन्त’ इति पदान्ते विहितजश्त्वन्तु भवत्येव । उभयसज्ञान्यपि छन्दसि दृश्यन्ते, इति वच नात् । छन्दोवत् सूत्राणि भवन्तीति छान्दसविधीना सूत्रेष्वपि प्रवृत्ते । नचैवमपि पदत्वात् कुत्व भत्वात् जशत्वाभावश्च कुतो न स्यादिति वाच्यम् । ‘छन्दसि दृष्टानुविधि' इति वचनादि त्यल ॥ आच ऐच्चेतीतरेतरयोगद्वन्द्वो वा । तथासति सौत्रमेमकवचनम् । आचार्यपारम्पर्योपदेश सिद्धसज्ञाधिकारात् सज्ञेति लभ्यते । तदेतदाह । आदैश्चेत्यादिना । अदेडुणः ॥ सज्ञा प्रस्तावात् सज्ञेतेि लभ्यते । अञ्च एड्चेति समाहारद्वन्द्व । तदाह । अदेड्चेत्यादिना । भूवा दयो धातवः ॥ भूश्च वाश्च भूवौ । आदिश्च आदिश्च आदी । प्रथम आदिशब्द प्रभृतिव चन । द्वितीयस्तु प्रकारवचन । भूवैौ आदी येषान्ते भूवादय । भू प्रभृतय वा सदृशाश्च ये, ते धातुसंज्ञका इत्यर्थे । वा धातुसादृश्यञ्च क्रियावाचकत्वेन । तदाह । क्रियावाचिन इत्या दिना ॥ क्रियावाचिन, किम् । धातुपाठे या इत्यस्य पाठात् या. पश्यन्तीत्यत्र टाबन्त