पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२५
बालमनोरमा


२८ । परः सन्निकर्षः संहिता । (१-४-१०९)

वर्णानामतिशयित. सन्निधिः संहितासंज्ञः स्यात् ।

२९ । सुप्तिङन्तं पद्म् । (१-४-१४)

सुबन्तं तिडन्तं च पदसंझं स्यात् ।

३० । हलोऽनन्तराः संयोगः । (१-१-७)

अभिरव्यवहिता हल संयोगसंज्ञा. स्यु ।

३१ । हस्वं लघु । (१-४-१०)

३२ । संयोगे गुरु । (१-४-११)

संयोगे परे हस्वं गुरुसंज्ञे स्यात् ।


योज्यम् । यद्वा वर्णानामुच्चारणाभाव विराम । भावे घञ् । स च किंचिद्वर्णोच्चारणोत्तरकालिक एव गृह्यते । व्याख्यानात् । अस्मिन् पक्षे किंचिद्वर्णोच्चारणोत्तर वर्णान्तराणामुच्चारणाभाव अवसानमिति विवरणयाजना । तत्र प्रथमपक्षे खरवसानयोरित्यत्र खरि परत रेफस्य विसर्ग । अवसाने तु रेफे स्थानिनीतियोज्यम्। खरवसानयोरियेकापि सप्तमी विषयभेदाद्भिद्यते । द्वितीयपक्षे तु अभावस्यापि बुद्धिकृत परत्व बेाच्द्यम् । परस्सन्निकर्षः ॥ पर अतिशयित “दूरानात्मो त्तमा परा' इत्यमर । सन्निकर्षस्सामीप्य अर्धमात्राधिककालव्यवधानाभाव । अर्धमात्रकाल व्यवधानस्य अवर्जनीयत्वात् । तदेतदभिप्रेत्याह । आतिशयित इत्यादिना । सुप्तिङन्तं पदम् ॥ स्वौजसमौडिति सूत्रे सु इत्यारभ्य सुप पकारेण प्रत्याहार । नतु सप्तमीबहुवचनस्यै वात्र ग्रहणम्। व्याख्यानात् । सुप्च तिङ् च सुप्तिडौ तौ अन्ते यस्य तत् सप्तिडन्त शब्दरूपमिति शब्दशास्रप्रस्तावाल्लभ्यते । अन्तशब्दश्च प्रत्येक सबध्द्यते । तदाह । सुबन्तमित्यादिना । हलोऽनन्तरास्संयोगः ॥ अन्तरशब्दोऽत्र व्यवधाने वर्तते “अन्तरमवकाशावधिपरिधाना न्तर्द्धिभेदतादथ्ये' इत्यमर । व्यवधानश्च विजातीयेनैव । अविद्यमान अन्तर व्यवधानयेषामिति विग्रह । नञोऽस्त्यर्थानामिति विद्यमानपदस्य लोप । तदाह । अज्भिरित्यादिना ॥ तत्र हलश्च हलौ च हल इत्येकशेष । तेन द्वयोरपि सयोगसज्ञा लभ्यते । ततश्च शिक्षेत्यत्र ‘गुरोश्च हल' इत्यप्रत्ययस्सिध्द्येत । अत्र च समुदायस्यैव सयोगसज्ञा । महासज्ञाकरणात्, व्याख्यानाच । नतु प्रत्येकम्। तथासति सुदृषत्प्रासाद इत्यत्र पकारसन्निधौ तकारस्य सयोगत्वापत्तौ सयोगान्त लोपापत्ते । यत्र तु बहवो हल श्लिष्टा तत्रापि द्वयोर्द्धयोस्सयोगसज्ञा नतु बहूनामेवेति शब्देन्दुशे खरे स्पष्ट । हृस्वं लघु ॥ हूस्व लघुसज्ञ स्यादित्यर्थस्य स्पष्टत्वात् न व्याख्यातम् । अत एव निर्देशातू डूस्वशब्दो नपुसकलिङ्गोऽपि । संयोगे गुरु ॥ ह्रस्वमित्यनुवर्तते । तदाह । संयोगे