पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
[परिभाषा
सिद्धान्तकौमुदीसहिता


३८ । षष्ठी स्थानेयोगा । (१-१-४९)

अनिर्धारितसंबन्धविशेषा षष्ठी स्थानेयोगा बोद्धया । स्थानञ्च प्रसङ्ग ।

३९ । स्थानेऽन्तरतमः । (१-१-५०)


विधौ मूलकारश्च वक्ष्यति । अङ्गस्य नुम्विधानात् तद्भक्तो हि नुम्, इति । षष्ठी स्थानेयोगा ॥ स्थान प्रसङ्ग इति वक्ष्यांते । तस्मिन् वाचकतया योगो यस्यास्सा स्थानेयोगा, निपातनातू सप्तम्या अलुक् । स्थानेन योगे यस्या इति विग्रह । निपातनादेत्वम् । इको यणचीत्यादौ षष्ठी स्थानरूपसम्बन्धार्थिकेत्यर्थ । लोके तावदेकशत षष्ठयर्था आर्था यौना मौखा स्रौवाश्च । शब्दस्य शब्देन त्रय एव सम्बन्धा । आनन्तर्य सामीप्य प्रसङ्गश्चेति । तत्रान्यतमार्थनिर्द्धारणा र्थमिद सूत्रमिति भाष्यम्। ततश्च इको यणचीत्यादौ इक इति षष्ठया स्थानमुच्यते । तस्मिन् प्रकृत्यर्थ इक् निरूपकतयाऽन्वेति । अचि परत इक प्रसङ्गे यण् स्यादिति विवरणवाक्ये त्वस्मिन् इक इति षष्ठी निरूपकतायामिति न पुनरुक्तिश्शक्या । यथा देवदत्तस्यावयव पाणिरिति । ‘ऊदुपधाया गोह' इत्यत्र तु गोह इति षष्ठी न स्थानार्थिका । उपधापदसमभिव्याहारेणावयवषष्ठी त्वनिर्द्धारणात् । परिभाषाणाञ्च अनियमे नियमनार्थमेव प्रवृत्ते । तदेतदाह । अनिर्द्धारिते त्यादिना ॥ अनिर्द्धारित सम्वन्धविशेष यस्या इति विग्रह । तदेवमुदाहृतप्रकृतभाष्यरीत्या इकोयणचीत्यादौ षष्ठी स्थानरूपसम्बन्धविशेषार्थिकेति स्थितम् । मतुप्सूत्रभाष्ये तु अनन्तरादयो न षष्ठयर्था इति स्थितम् । एव सति स्थाने इति सप्तम्यन्तपदेन योगो यस्या इति विग्रहे स्थाने इति सप्तम्यन्तस्यानुकरणम् । षष्टीश्रुतौ स्थाने इति सप्तम्यन्त पदमुपतिष्ठत इति फलति । स्थाननार्थेन योगो यस्या इति त्रितीयान्तविग्रहेतु अद्याहृतस्थानपदार्थनिरूपितसम्बन्धार्थिके त्यर्थ । अस्तेभूर्भवतीति सन्देहस्थाने अनन्तरे समीपे इत्यादिप्रकृतसूत्रभाष्यस्य तु अस्तेरनन्तरे इत्यच्ध्द्याहृतानन्तरादिपदार्थनिरूपितसम्बन्धा षष्ठीत्येवार्थ । अनन्तरादीना षष्टयर्थ त्वन्तु नास्त्येवेति प्रौढमनोरमाया हलन्त्यमिति सूत्रे स्थितम् । तद्वयाख्याने च शब्दरत्ने शब्देन्दुशेखरे च बहुधा प्रपञ्चितम् । अनिर्द्धारितेति किम् । ऊदुपधाया इत्यत्र गोह इति षष्ठया स्थानार्थकत्वम्माभूत् । सतितु तत्रापि स्थानार्थकत्वे गोहोऽन्त्यस्य उपधामात्रस्य च ऊत् स्यात् । ननु स्थानशब्द आधारवाची लोके प्रसिद्ध । यथा शिवस्थान कैलास विष्णुस्थान वैकुण्ठ इत्यादौ । एवञ्च इको यणचीत्यादौ षष्ठया स्थानार्थकत्वे प्रकृत्यर्थस्य तत्र निरूपकत्वेन अभेदेन वा अन्वये सति इकोऽधिकरणे यण् स्यात् इति इगविकरणको यण् स्यादिति वा अर्थ स्स्यात् । तत इको निवृत्तिर्नस्यादित्यत आह । स्थानञ्च प्रसङ्ग इति । क्वचिदाभिचारेष्टौ दर्भाणा स्थाने शरै प्रस्तरितव्यमित्यत्र स्थानशब्दस्य प्रसङ्गे दर्शनादिति भाव । एवञ्च तत्र यथा शरैर्दर्भानिवर्तन्ते तद्वदिकोयणचीत्यादावपि यणादिभिरिगादयो निवर्तन्ते । तत्र च य प्रसक्तो निवर्तते स स्थानीति व्यवह्रियते । यो निवर्तयति स आदेश इति । स्थानेऽन्तर तमः ॥ स्थान प्रसङ्ग इत्युक्त अन्तरशब्दोऽत्र सदृशपर्याय अतिशयितोऽन्तर अन्तरतम