पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
[परिभाषा
सिद्धान्तकौमुदीसहिता


सप्तमीनिर्देशेन विधीयमानं कार्य वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्द्यम् ।

४१ । तस्मादित्युत्तरस्य । (१-१-६७)

पञ्चमीनिर्देशेन क्रियमाणं कार्य वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम् ।




स्यादित्यवगतम् । तत्र अचो वर्णान्तराधिकरणत्व न सम्भवतीति सति सप्तम्याश्रयणीया । आचेि सति इको यण स्यादिति । तत्र व्यवहिते अव्यवहिते च इको यण् प्राप्त । ततश्च समिधमित्यत्र धकारस्य व्यवहिते अकारे सत्यपि मकारादिकारस्य यण् स्यात् । तथा अचि सति पूर्वस्य परस्य वा इको यण् प्राप्त । ततश्च दद्धयुदकमित्यत्र इकारे अचि सति उकारस्य परस्यापि इको यण स्यात् । तत्र अव्यवहित एव अचि भवति पूर्वस्यैव भवति । न परस्यत्येतदर्थमिदमारभ्यते । तस्मिन्निति न तच्छब्दस्वरूपपर । तथासति “ तस्मिन्नणि च युष्माकास्माकौ” इत्यादावेव प्रवर्तत । नत्विको यणचीत्यादौ । किन्तु इको यणचीत्यादिसूत्र गतस्य अचीत्यादिसप्तम्यन्तपदस्य तस्मिन्नित्यनुकरणमितीत्यनन्तर गम्येऽथे इति शेष । निरिति नैरन्तयें । दिशिरुचारणे । एवञ्च इको यणचि रायोहलीत्यादिसूत्रेषु अचि हलि इत्येव सप्तम्यन्तपदगम्येऽर्थे अकारादौ दद्यत्र सुद्धयुपास्य इत्यादिप्रयोगदशाया निर्दिष्टे अव्यवहितो चारिते सति पूर्वस्य कार्य भवति । नतु व्यवहितोचारिते । नापि परस्येति फलितेऽर्थे । व्यव धानश्च वर्णान्तरकृतमेव निषिध्द्यते । नतु कालकृतम् । इकोयणचीत्यादौ कालकृतव्यवधानस्य सहिः [ ताधिकारादेव निरासलाभात् । तत्र कालकृतव्यवधानस्याग्यनेनैव सूत्रेण निरासे सहिताधिकारस्य वैयर्थ्यापातात् । एवञ्च ये सहिताधिकारबहिर्भूता ‘आनडृतो द्वन्द्वे’ ‘देवताद्वन्द्वे च' इत्या दय उत्तरपदे परत आनडादिविधय ते सर्वे अग्नाविष्णू इत्यमाविष्णू इत्याद्यवग्रहे कालव्यवधा नेऽपि भवन्ति । एतत्सर्वमभिप्रेत्य पर्यवसन्नार्थमाह । सप्तमीनिर्देशेनेत्यादिना ॥ इति सूत्राक्ष रानुयायी पन्था । ‘अतिशायनेतमप्’ इत्यत्र तु नेय परिभाषा प्रवर्तते । सप्तम्यन्तातिशायनपदार्थस्य शब्दरूपत्वाभावेनाव्यवहितोच्चारितत्वनिर्दिष्टत्वाभावात् । नचैवमपि कर्तृकर्मणो कृतीत्यत्रापि अस्या परिभाषाया प्रवृत्तौ कर्तृषष्ठी कर्मणिषष्ठी च कृष्णस्य कृति जगत कर्ता कृष्ण इत्यत्रैव स्यात् । नतु कृति कृष्णस्य कर्ता जगत इत्यत्र इति वाच्यम् । लक्ष्यानुरोधेन क्वचिदवञ्जातीयकेषु अस्या परिभाषाया अप्रवृत्तिरिति श्रान्नलेोप इति सूत्रे भाष्ये प्रपञ्चितत्वात् । वस्तुतस्तु भाष्या नुसारेण अत्र सूत्रे निर्दिष्टग्रहण सहिताधिकारसूत्रञ्च विफलमेवेति इको यणचीत्यत्र वक्ष्यते । तस्मादित्युत्तरस्य ॥'द्वयन्तरुपसर्गेभ्योऽप ईत्’ ‘उदस्थास्तम्भ्वो पूर्वस्य' इत्यादिसूत्रगतपञ्च म्यन्तस्यानुकरण । तस्मादिति । इतिशब्दानन्तर गम्यत इति शेष । निरिति नैरन्तर्ये । दिशिरु चारणे । द्वयन्तरित्यादिसूत्रेषु पञ्चम्यन्तगम्ये अर्थे द्वयन्तरादिशब्दे निर्दिष्टे अव्यवहितोच्चारिते सत्येव तत परस्यैव भवति । न तु व्यवहितोच्चारिते द्वयादिशब्दे । नापि तत पूर्वस्यैव भव तीति नियमार्थमिदम् । तदाह । पञ्चमीनिर्देशेनेत्यादिना ॥ उत्तरस्य किम् । ‘तिडतिड इति निघात उत्तरस्यैव भवति । अग्मिीळे, नेह, ईळे अग्निम् । अव्यवहिते किम् । उत्