पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
[परिभाषा
सिद्धान्तकौमुदीसहिता


४५ ॥ अनेकाल्शित्सर्वस्य । (१-१-५५)
स्पष्टम् । “अलोऽन्त्य' सूत्रापवाद । “ अष्टाभ्य औश्' (सू ३७२)
इत्यादौ “आदे. परस्य' (सू ४४) इत्येतदपि परत्वादनेन बाद्धयते ।


४६ । स्वरितेनाधिकारः । (१-३-११)
स्वरितत्वयुक्त शब्दस्वरूपमधिकृतं बोद्धयम्। ‘परनित्यान्तरङ्गापवादानामुत्त-

इत्यप्यनुवर्तनीयम् तेन द्वीपमित्यत्र ईत्व पान्तसमुदायस्य न भवति। अनेकाल्शित् सर्वस्य ॥ न एक अनेक , अनेक अल् यस्य स अनेकाल्, शकार इत् यस्य स शित्, अनेकाल्व शितूचेति समाहारद्वन्द्व । स्पष्टमिति ॥ अनुवर्तनीयपदान्तराभावादिति भाव । अस्तेर्भूरित्याद्यु दाहरणम् । ननु असधातोभूर्भवतीत्युक्ते कृत्स्रस्यैवादेश प्राप्त इति किमर्थमिद सूत्रमारभ्यत इत्यत आह । अलोऽन्त्यसूत्रापवाद् इति ॥ अलेोन्त्येति सूत्रैकदेशानुकरणम् । अनुकरण त्वादेव नापशब्द । अधिरीश्वर इति सूत्रैकदेशस्य प्राग्रीश्वरान्निपाता इति ग्रहणलिङ्गात् । स्यादेतत् । अष्टन् शब्दाज्जसि शसि च अष्टन आ विभक्ताविति आत्वे अष्टा अस् इति स्थिते अष्टाभ्य औशिति कृताकारात् अष्टन परयोर्जश्शसोर्विधीयमान औशादेश अलेोऽन्त्यस्येति बाधित्वा आदे परस्येत्यादेरकारस्य प्राप्त । अनेकाल्त्वाच्च सर्वादेश प्राप्त । एवञ्च ‘अतो भिस ऐस्’इत्यादावपि । तत्र कतरच्छास्त्र बाध्द्य कतरच्च प्रवर्तत इत्यत्र किम् विनिगमकमित्यत आह । अष्टाभ्य औशित्यादाविति ॥ आदिना अतो भिस ऐसेित्यादि सङ्गह। अष्टाभ्य औशि

त्यादौ आदे परस्येत्येतदपि परत्वादनेन बाध्द्यत इत्यन्वय । अस्तेर्भूरित्यादौ अनेकाल्शिदित्यनेन यथा अलेोऽन्यस्त्येति बाध्यते तथा अष्टाभ्य औशिल्यादौ आदे परस्येत्येतदपि बाध्ध्यत  इत्यर्थ । ननु अस्तेर्भूरित्यादौ अलोऽन्यस्त्येति प्राप्ते सत्येवानेकाल्शिदित्यारम्भाद्येननाप्राप्तिन्याये नापवादत्वात्तेन तत्रालोऽन्त्यस्येत्यस्य बाधो युज्यते । आदे परस्येत्यस्य तु अनेकाल्शित् सर्व स्येति नापवाद । अस्तेभूरित्यादावादे परस्येत्यप्राप्तावपि तत्प्रवृत्तेरित्यत आह । प'रत्वादिति' ॥ विप्रतिषेधे पर कार्यमिति तुल्यबलविरोधे परप्राबल्यस्य वक्ष्यमाणत्वादिति भाव । आदे परस्येत्यस्यावकाश द्यन्तरुपसर्गेभ्योऽप ईदित्यादि । अनेकाल् शित् सर्वस्येत्यस्यावकाश अस्तेर्भू इदम इश् इत्यादि. । अतस्तुल्यबलत्वमुभयो । स्वरितेनाधिकारः ॥ अधिकार व्यापृति । यथा लोके अधिकृतो ग्रामेऽसाविति व्यापृत इति गम्यते । शब्दस्य च उत्तरसूत्रेष्वनुवृत्तिरेव व्यापृति । स्वरितेन स्वरितविशेषेण अधिकार उत्तरत्रानुवृत्तिरूपव्यापार प्रत्येतव्य । यत् पदशास्त्रकृता स्वरिताख्यस्वरविशेषविशिष्टमुच्चारित तदुत्तरसूत्रष्वनुवर्तनीयमिति यावत् । फलित

माह । स्वरितत्वयुक्तमित्यादिना ॥ आनुनासिक्यवत् स्वरितोच्चारणमपि प्रतिज्ञागम्यम् । अनुवृत्तावुत्तरावधिस्तु व्याख्यानादेवावगन्तव्य । यद्यपि निवृत्तिवदनुवृत्तिरपि व्याख्यानादेव भविध्यतीति किं सूत्रेण । तथाच भाष्ये तत् प्रयोजन बहुधा प्रपञ्चितम् । परनित्येति । परादीनाम्मध्ध्ये पूर्वपूर्वापेक्षया उत्तरमुत्तर शास्त्र बलवत्तरामित्यर्थः । उत्तरोत्तरमित्यत आनुपूव्ये द्वे