पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
५५
बालमनोरमा


'ऋते च तृतीयासमासे' (वा० ३६०७) । सुखेन ऋत सुखार्त. । “तृतीया इति किम् । परमर्त प्रवत्सरकम्बलवसनदशार्णानामृणे (वा० ३६०८-९) प्रार्णम् । वत्सतरार्णमित्यादि । ऋणस्यापनयनाय यदन्यदृणं क्रियते तदृणार्णम् दशार्णो देश । नदी च दशार्णा । ऋणशब्दो दुर्गभूमौजले च।

७४ ॥ उपसर्गादृति धातौ । (६-१-११)

अवर्णान्तादुपसर्गादृृकारादौ धातैौ परे वृद्धिरेकादेश स्यात् । उपार्च्छंति प्रार्च्छति'

७५ । अन्तादिवञ्च । (६-१-८५)


विग्रहप्रदर्शनम् । ऋ गतौ, गत्यर्थाकर्मकेति कर्तरि क्त प्रकृत्यादित्वात् तृतीया । सुरसुपेति समास । सुख ऋत इति स्थिते गुणे प्राप्त अनेन वृद्धि आकार । रपरत्वे सुखार्त इति रूपम्। समासग्रहणस्य उदाहृतविग्रहवाक्यमेव प्रत्युदाहरण दर्शितप्रायमिति तृतीयेत्यशस्य प्रयोजन पृच्छति । तृतीयेति किमिति । परमर्त इति ॥ परमश्चासैौ ऋतश्चेति कर्मवारय । आद्रुण प्रवत्सतर ॥ पञ्चम्यर्थे षष्ठी । प्र, वत्सतर, कम्बळ, वसन, दश, ऋण, एतेषा ऋणशब्दे परे पूर्वपरयोरचोर्वृद्धिरेकादेशस्यादित्यर्थ । प्रार्णमिति ॥ प्रगतमृणमिति विग्रहे, प्रादयो गताद्यर्थे प्रथमयेति गतिसमास प्र ऋण इति स्थिते गुण बाधित्वा अनेन वार्तिकेन वृद्धि आकार । रपरत्वम् । वत्सतर शिशुवत्स , तस्य ऋणमिति विग्रह । वत्सतरमधिकृत्य वा तद्वहणार्थ वा यदृण गृह्यते तत् वत्सतरार्णम्। एवमग्रेपि द्रष्टव्यम् । आदिशब्देन कम्बळार्ण वसनार्ण दशार्ण ऋणार्णमिति च गृह्यते । सर्वत्र षष्ठीसमास ऋणशब्दस्य ऋणशब्दे परे कथमन्वय इत्यत आह । ऋणस्येति ॥ देशनदीविशेषयो कथ दशार्णशब्दप्रवृत्तिरित्यत आह। ऋण शब्द इति ॥ तथाच दश ऋणानि दुर्गभूमय यस्मिन् देशे स दशार्ण देशविशेष । दशविधानि ऋणानि जलानि यस्या नद्या सा दशार्णेति विग्रह । उपसर्गादृति ॥ आद्गुण इत्यत आदिति पञ्चम्यन्तमनुवर्तते । तच्च उपसर्गविशेषणम् । अतस्तदन्तविधि अकारान्तादिति लभ्यते । ऋतीति धातोर्विशेषणम् । यस्मिन्विधिरिति तदादिविधि । ऋकारादाविति लभ्यते वृद्धिरेचीत्यतो वृद्धिरिति चानुवर्तते । एक पूर्वपरयोरित्यधिकृतम् । तदाह । अवर्णान्तादि त्यादिना । एकादेश इति ॥ पूर्वपरयोरचोरिति शेष । अन्यथा उपसर्गस्य वातोश्च सर्वाः देशस्यात् । उपार्च्छति । प्रार्च्छतीति ॥ उप ऋच्छति प्र ऋच्छति इति स्थिते गुणे प्राप्ते अनेन वृद्धि रपरत्वम् । अथ तस्य रेपस्य पदान्ते विहित विसर्गमाशङ्कितु तस्य पदान्तत्वसा धनायाह । अन्तादिवञ्च ॥ एक पूर्वपरयोरिति सूत्रमनुवर्तते । यथासख्यपरिभाषया आद्य न्तवादित्यस्य क्रमेणान्वय । ततश्च पूर्वपरयोर्भवन् एक आदेश पूर्वस्यान्तवत् परस्यादिबदिति लभ्यते । यद्यपि एकादेशस्य द्वौ वर्णौं स्थानिनौ । पूर्व परश्च । तयोश्च वर्णयो प्रत्येकमेकत्वा दखण्डत्वात्तदपेक्षया एकादेशस्य अन्तादिवत्वकथनमसङ्गतम् । तथापि पूर्वपरवर्णयोर्भवन्नेकादेश