पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


योऽयमेकादेश स पूर्वस्यान्तवत्परस्यादिवत्स्यात् । इति रेफस्य पदान्तत्वं ।

७६ । खरवसानयोर्विसर्जनीयः । (८-३-१५)

खरि अवसाने च परे रेफस्य विसर्जनीय स्यात्पदान्ते। इति विसर्गे प्राप्त । अन्तवद्भावेन पदान्तरेफस्य न विसर्ग । “उभयथर्क्षु' (सू ३६३०), * कर्तरि


प्रथमस्थानिघटितसमुदायस्य पूर्वस्य य अन्त प्रथमस्थानी तत्कार्यकारी भवति । द्विती यस्थानिघटितसमुदायस्य उत्तरस्य य आदि द्वितीयस्थानी तत्कार्यकारी भवतीत्यर्थो विवक्षित । तत्र पूर्वान्तवत्वे यथा । क्षीरपेण । क्षीरप इन इति स्थिते आद्गुण इत्येकादेश एकार । तत्र पूर्वान्तवत्वेन प इत्युत्तरपदस्य एकाच्त्वादेकाजुत्तरपदे ण इति णत्व भवति । अत्र एकादेशे स्थानिवत्सूत्रन्तु न प्रवर्तते । एकादेशस्थानीभूत पकाराद्कारमालम्ब्य पे इत्यस्य एकाजुत्तर पदत्वाश्रयेण प्रवर्तमानस्य णत्वस्य स्थन्यलाश्रयत्वात् । यद्यपि एकाजुत्तरपदत्वमेव प्राधान्येन णत्व विधिराश्रयति । पकारादकार स्थान्यलन्तु तद्विशेषणीभूताच्त्वेनाश्रयति । तथाप्यनल्विधाविति निषेधोऽत्र भवत्येव । यथाकथञ्चित् स्थान्यलाश्रयणस्यैव तत्र विवक्षितत्वात् । अन्यथा प्रति दीव्येत्यत्र क्तादशे त्यप स्थानिगतवलाद्यार्द्धधातुकत्वेनाश्रित्य इडागमे कर्तव्ये अनाल्विधाविति निषे धानुपपत्ते । तत्र वल प्राधान्येनाश्रयणाभावात् । एतेन स्थानिवत्सूत्रेण गतार्थमिद सूत्रमिति निरस्तम् । परादिवत्त्वे यथा । खट्वा । अत्र खट्वशब्दादजाद्यतष्टाप् । सवर्णदीर्घ आकार । तस्य परादिवत्त्वेन टाप्त्वात्तत परस्य सोहल्डयादिलोप । इदमपि स्थानिवद्भावेन अनिर्वाह्यम्। हल्डयादि लोपस्यात्र स्थान्यलाश्रयताया मूलकृतैव वक्ष्यमाणत्वात् । नचैव सति यजेर्लडि उत्तमपुरुषैकव चने इटि शपि आद्गुणे अडागमे अयज इन्द्रमित्यत्र गुणस्य एकादेशस्य परादिवत्वेन इकारत्वा त्तत्र इकारे परे सवर्णदीर्घस्यादिति वाच्यम्। इह हेि अल्समुदायधर्मा एव प्रातिपदिकत्वसुबन्तत्व प्रत्ययत्वादय अतिदिश्यन्ते, नतु वर्णमात्रधर्मा अत्वहूस्वत्वादय । उक्तञ्च भाष्ये। न वा अताद्रू प्यातिदेशादिति । अन्तादिवर्णमात्रवृत्तिधर्मानतिदेशादयज इन्द्रमित्येवञ्जातीयकेषु सवर्णदीर्घा दिकन्नभवतीत्यर्थ । इत्यलमतिविस्तरेण । इति रेफस्येति ॥ उपार्च्र्छतीत्यत्र आर् इत्येकादे शस्य पूर्वान्तवत्त्वेन रेफस्य पदान्तत्वे सति विसर्गे प्राप्त इत्युत्तरेणान्वय । कय विसर्गप्राप्तिरित्यत आह । खरवसानयोः ॥ रोरीत्यत र इति षष्ठयन्तमनुवर्तते। तच्च पदस्येत्यधिकृतस्य विशेषणम् । येन विधिरिति रेफान्तस्येति लभ्यते । खरि अवसाने व परत रेफान्तस्य पदस्य विसर्जनीयस्या दित्यर्थ । अलोन्त्यस्येत्यन्त्यस्य भवति । अभावरूपस्य चावसानस्य बुद्धिकृत परत्वम्। फलित माह । खरि अवसाने चेति । पदान्तइति ॥ विद्यमानस्येति शेष । यदि तु अन्त्यवर्णस्य अवसानसज्ञा तदा अवसान इत्यत्र योजना विरामोऽवसानामित्यत्रोक्ता । इति विसर्ग इति ॥ उपार्च्र्छतीत्यादौ अनेन विसर्गे प्राप्ते तत्परिहार उच्यत इत्यर्थः। अन्तवदिति ॥ अन्तवत्त्वेन पदान्तत्व प्राप्तस्य रेफस्य विसर्गे न भवतीत्यर्थः । कुत इत्यत आह । उभयधर्स्विति ॥ अन्यथा तत्रापि विसर्गनिर्देशस्यादिति भाव । नन्वत्र