पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


षेधस्तु न दीर्घशकारयो । ग्रहणकशास्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनि ष्पत्ते । “ अक किम् । हरये । “ अकोऽकि दीर्घ ' इत्येव सुवचम् । * ऋति सवर्णे ऋर वा' (वा ३६४०) । होतृकार-होतृकार [होतृ ऋकार होतृ३कार ] ‘लति सवर्णे लृ त्वा' (वा ३६४१) होत्लृकार [—होतृ लृकार होत्लृ३कार] पक्षे


तन्निवृत्यर्थमचीत्यनुवर्तनीयमिति भाव । ननु ईकारशकारयो स्थानप्रयत्न्नसाम्येऽपि न सावर्ण्यम् । नाज्झलाविति निषेधात् । अत कुमारी शेत इत्यत्र अकस्मवर्ण इत्यस्याप्रसत्ते अची त्यनुवृत्तिव्यैवेत्यत आह । नाज्झलावितीति ॥ नाज्झलाविति सावण्यैनिषेवेो वार्णसमा स्रायिकानामेव । नतु दीर्घालुतानामपि । आदिरन्त्येन सहेतेत्यनेन वार्णसमान्नायिकानामेव अच शब्दवाच्यत्वावगमात् । अत ईकारशकारयोस्सावर्ण्येसत्वात् कुमारी शेत इत्यत्रातिप्रसङ्गरस्या दित्यचीत्यनुवृत्तिरावश्यकीत्यर्थं । ननुवार्णसमान्नायिकानामेव अच्शब्दवाच्यत्वेऽपि अच् शब्दोप स्थितै अकारादिभि ह्रस्वदीर्घप्लुतानामपि ग्रहण भवति । अणुदित्सूत्रबलात्। अत ईकारशकार योर्न सावर्ण्यप्रसक्तिरित्यजनुवतिव्यैवेत्यत आह । ग्रहणकेति ॥ अणुदित्सवर्णस्येति ग्रहणकसूत्र हि लब्ध्वात्मकमेव सत् “अस्य च्वौ, इत्यादौ प्रवृतिमर्हति । नाज्झलाविति प्रवृत्तिदशायाञ्च ग्रहणकशास्रमिद न लब्धात्मकम् । तद्धि सवर्णपदघटितत्वात् सवर्णपदार्थावगमोत्तरमेव लब्धा त्मकम् । सवर्णसज्ञाविधायकच्च तुत्यास्यसूत्र सामान्यतस्खार्थ बोधयदपि नाज्झलाविति अप वादविषय परिहृत्य तदन्यत्रैव पर्यवसान लब्ध्वा स्वकार्यक्षमतामश्नुते । उक्तञ्च ‘प्रकल्यापवाद विषयमुत्सर्गेऽभिनिविशत’ इति । एवञ्च अणुदित्सूत्रस्य नाज्झलाविति निषेधसहिततुल्यास्य सूत्रप्रवृत्ते प्रागलब्धात्मकतया नाज्झलावित्यत्र अज्ग्रहणेन दीर्घप्लुताना ग्रहणाभावेन ईकार शकारयोस्सावर्ण्यनिषेवाभावेन सावर्ण्यसत्वात् कुमारी शेत इत्यत्र अकस्सवर्ण इति प्राप्तौ तन्निवृत्यर्थमचीत्यनुवृत्तिराश्रयणीयेत्यर्थ । तदेतत् नाज्झलाविति सावर्ण्यनिषेधो यद्यपीति ग्रन्थव्या ख्यावसरे प्रपञ्चितम्। अकोऽकि दीर्घ इत्येव सुवचमिति ॥ एवञ्च सवर्णग्रहणन्न कर्तव्यमिति लाघवम् । दद्ध्युकार इत्यत्र तु यथासङ्खयाश्रयणान्नातिप्रसङ्ग । ततश्च अचीत्यनुवृत्तिरपि नाश्रयः णीयेति भाव । ऋति ऋवा इति वार्तिकम् अकस्सवर्ण इत्यतोऽनुवृत्तसवर्णपदेन योजयित्वा पठति । ऋति सवणें ऋवा ॥ अक इत्यनुवर्तते । एक पूर्वपरयोरिति च । अकस्सवणे ऋति परे पूर्वपरयो ऋ इलेयकादेशस्यादित्यर्थ । होतृकार इति ॥ होतृ ऋकार इति स्थिते अनेन द्वयो. ऋकारयो स्थाने ऋकारविलक्षणो नृसिहवत् द्वयन्तरात्मा ऋकाररेफद्वयवान् कश्चि द्वर्णो भवति । एतदभावपक्षे रूप दर्शयति । होतृकार इति ॥ अकस्सवर्ण इति दीर्घ । लृति सवर्णे लृवा ॥ अकस्सवर्णे लृति पर पूर्वपरयो लृ इत्येकादेशो वा स्यादित्यर्थ । होत्लृकार इति ॥ होतृ लकार इति स्थिते ऋकारस्य लृकारस्य च स्थाने नृसिहवत् द्यन्तरात्मा लृकार द्विलकारवान् कश्चिद्वर्णो भवति । पक्ष इति ॥ उक्तव्यक्तयन्तरात्मकवर्णाः भावपक्षे ऋकारस्य लृकारस्य च स्थाने अकस्सवर्ण इति दीर्घो भवन् ऋलृवर्णयोरिति सावर्ण्या दृृकार एव भवति । लृकारस्य दीर्घाभावादिति भाव । अत एव होतृ लृकार इत्यत्र सवर्णदीर्घपक्षे