पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
[हल्सन्धि
सिद्धान्तकौमुदीसहिता


१३५ । समः सुटेि । (८-३-५)

समो रु स्यात्सुटि । * अलोऽन्त्यस्य' (सन् ४२)

१३६ । अत्रानुनासिकः पूर्वस्य तु वा (८-३-२)

अत्र रुप्रकरणे रो पूर्वस्यानुनासिको वा स्यात् ।

१३७ । । अनुनासिकात्परोऽनुस्वारः । (८-३-४)

अनुनासिकं विहाय रो पूर्वस्मात्परोऽनुस्वारागम स्यात् । * खरवसा

नयोर्विसर्जनीय ' (सू ७६) ।

१३८ । विसर्जनीयस्य सः । (८-३-३४)

खरि विसर्जनीयस्य स स्यात् । एतदपवादेन * वा शरि' (सू १५१)

इति पाक्षिके विसर्गे प्राप्ते । सम्पुङ्काना सो वक्तव्य ' (वा ४८९२) । सॅस्स्क


सम इति षष्ठयन्तम् । 'मतुवसोरुसम्बुद्धौ' इत्यत रुग्रहणमनुवर्तते । तदाह । समो रुस्स्यात् सुटीति ॥ रु इत्युकार इत् । अलोऽन्त्यस्येति उपतिष्ठत इति शेष । सम्पूर्वात् करोतेस्तुचेि 'सम्परिभ्या करोतौ भूषणे' इति सुडागमे सम् स्कतेति स्थिते मस्य रुत्वम् । सर् स्कर्तेति स्थिते । अत्रानुनासिकः ॥ “मतुवसो रुसम्बुद्धौ' इति रुत्वविध्द्यनन्तरमिद पठितम् । अत अत्रेत्यनेन रुप्रकरणे इत्यर्थो गम्यते । पूर्वत्वञ्च रु इत्यपेक्षया ज्ञेयम् । प्रकृतत्वात् । तदाह । अत्र रुप्रकरणे रो पूर्वस्यानुनासिको वा स्यादिति । उत्तरसूत्रे अनु नासिकाभावपक्षानुवादादेव सिद्धे वाग्रहण स्पष्टार्थम् । परस्य नित्य रुत्वम्, पूर्वस्य तु अनुनासिकविकल्प इति वैषम्यस्य सिद्धस्यैव द्योतनार्थस्तुशब्दोऽपि स्वष्टार्थ एव । इदमेवाभिप्रेत्य मूले विवरणवाक्ये वाग्रहणन्तु त्यक्तामिति प्रौढमनोरमाया मूलकृतैव उक्तम् । अनेन सूत्रेण सर् इत्यत्र सकारादकार ! अनुनासिक सॅस्कर्ता । अनुनासि कात् ॥ अनुनासिकादिति ल्यब्लोपे पञ्चमी । विहायेति गम्यम् । पूर्वस्येत्यनुवर्तते । पञ्चम्यन्ततया विपरिणम्यते । पूर्वत्वञ्च रुत्वकृतरेफापेक्षया । पतञ्च रोर्य पूर्ववर्णस्तदपेक्षया । तदाह ।, अनुनासिकं विहायेति ॥ अनुनासिकाभावपक्षे इत्यर्थ । आगमत्व परशब्द लभ्यम् । ततश्च राकारादकारस्य अनुनासिकाभावपक्षे अकारात् पर अनुस्वारागम । सर् स्कर्ता । अथ रेफस्य विसर्गविधि स्मारयति। खरवसानयोरिति । विसर्जनीयस्य स. ॥ खरवसानयोरित्यतो मण्डूकप्लुत्या स्वरीत्यनुवर्तते । एकदेशे स्वरितत्वप्रतिज्ञानात् । केचित्तु विस र्गश्रवणात् खरील्यार्थिकम् । अवसानस्य तु न सम्बन्ध । व्याख्यानादित्याहु । तदाह । खरीति ॥ विसर्जनीयत्य स इति सिद्ध सम्पुङ्कानामिति पुनर्विधान व्यर्थमित्यत आह । एतदपवादेनेति । पुनर्विधान वा शरीति पाक्षिकविसर्गबाधनार्थमिति भाव ।सम्पुङ्काना