१५६ सिद्धान्तकौमुदीसहिता [इदन्त २५३ । सख्युरसम्बुडौ ।। (७-१-९२) सख्युरङ्गात्पर सम्बुद्धिवर्ज सर्वनामस्थार्न णिद्वत्म्यात्। २५४ । अचो ञ्णिति । (७-२-११५) ञिति णिति च परेऽञ्जन्ताङ्गस्य वृद्धि स्यात् । सखायौ । सखाय । सखायम्। सखायी । धिसज्ञाभावान्न तत्कार्यम् । सख्या । सख्ये । २५५ । ख्यत्यात्परस्य ।। (६-१-११२) खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य डसिडसीरत उत्स्यात् । सख्यु. । कर्ता? इत्यादिनिर्देशेन अनडी नकारमाश्रित्य सुलोपे कर्तव्ये सन्निपातपरिभाषाया अप्रवृत्तरित्याहु । हे सखे इति ॥ 'अनडू सैौ' इत्यत्र असम्बुद्धावित्यनुवृत्तेरनडभावे ह्खख्य गुणे ' एड् हुखात् इति सुलेपे रूपम्। साख औ इति स्थिते णित्कार्य वृद्धि वक्ष्यन् णिद्वद्धाव दर्शयति । सख्युरसम्बुद्धौ ॥ सख्युरिति दिग्योगे पञ्चमी ।। * अङ्गस्य ? इत्यधिकृत पञ्चम्या विपरिणम्यते । परमित्यध्याहार्यम् । ' इतोऽत् सर्वनामस्थानेद' इत्यतस्सवैनामस्थाने इल्यनुवर्तते । असम्बुद्धावित्यभेदेनान्वेति ।। * गोतो णित्? इत्यतो णिदिति प्रथमान्तमनुवृत्तम् । तत्सामानाधिकरण्यात् सप्तमी प्रथमा कत्प्यते । तदाह । सख्युरङ्गादित्यादिना ॥ णिदृदिति ॥ णित्कार्यकृत् स्यादित्यर्थ । णिच्छब्दस्तत्कार्यातिदेशार्थ इति भाव । अचो ञ्णिति ॥ ञ् च एण् च ब्र्णो तौ इतौ यख्य तत् ञ्णित् ‘मृजे ? इत्यतो वृद्धिरित्यनुवर्तत । अङ्गस्येत्यविकृतमञ्चा विशेष्यते । तदन्तविधि । तदाह ॥ अजन्तस्येत्यादिना ॥ स्थानसाम्यादिकारस्य वृद्धिरैकार । तस्य आयादेश इत्यभिप्रेत्य आह । सखायाविति ॥ एव सखाय , सखाय, सखायौ, सखीन्, इति शसि हरिवदूपम्। असर्वनामस्थानत्वाण्णित्त्वाभा वात् न वृद्धि । धिसंज्ञाभावादिति ॥ * शेषो ध्यसखि ? इत्यत्र असखीति पर्युदासादिति भाव । न तत्कार्यमिति ॥ घिप्रयुक्तकार्य नेत्यथै । सख्येति ॥ सखि आा इति स्थिते घित्वाभावात् ‘आडो नाऽस्त्रियाम्? इति नाभावाभावे याणि रूपम् । सख्ये इति॥ सखि ए इति स्थिते घित्वाभावात् 'घेर्डिति' इत गुणाभावे याण रूपम्। डासडसो सखि अस् इति स्थिते घित्वाभावातू :घेडॅिति' इति गुणाभावे याण सख्यस् इति स्थिते । ख्यत्यात् परस्य ॥ खिखी इलयनयो तिती इलयनयोश्च कृतयणादेशयो ख्यलय इति निर्देश । यकारादकार उचारणार्थ । 'एड पदान्तातू' इत्यत अतीत्यनुवर्तते । तच परस्येति सामानाधिकरण्यातू षष्ठ्यन्त विपरिणम्यते । 'डासडसोश्व ” इल्यत डसिडसोरिल्यनुवर्तते । अवयवषछचेषा । ततश्च डासेङसोरवयवस्य अत इति लभ्योत । 'ऋत उत्' इत्यत उदिल्यनुवर्तते । “ एक पूर्वपरयो ' इति तु निवृत्तम् । परग्रहणसामथ्र्यात्। अन्यथा ख्यलयादिति पञ्चमीनिर्देशादेव सिद्ध कि तेन । तदाह। खितिशब्दाभ्यामित्यादिना ॥ सख्युरिति। सख्यसू इति स्थिते यकारा
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/163
एतत् पृष्ठम् अपरिष्कृतम् अस्ति